रविवार, 8 अप्रैल 2018

निर्णयास्तेषां परिणामाश्च

कश्चन निर्णयः साधुरसाधुर्वा कथं निश्चिनोषि? तस्य निर्णयस्य परिणामं निरीक्ष्य? यद्युत्तमपरिणामः प्राप्यते तर्ह्युत्तमनिर्णयो बभूव ननु? आपातेनेदं समीचीनं भासते परन्त्वयं सिद्धान्तो भाग्यस्य पात्रमुपेक्षते। कस्मिँश्चित् परिणामे द्वे वस्तू महत्वपूर्णे - प्रयत्नो भाग्यञ्च। यदि परिणामे केवलं प्रयत्नस्य पात्रमस्ति तर्ह्येवायं सिद्धान्तः सत्त्वं दर्शयति। परन्तु वस्तुतस्तथा न। प्रयत्नेभ्यः पश्चादपि कदा कदापेक्षितः परिणामो न लभ्यते - दैववशात्, भाग्यवशात्। यदि यथाशक्ति प्रयत्नाः कृत्वापि यथेच्छा परिणामो न लभ्यतेऽस्मिन् सन्दर्भे किं ‘निर्णयः सम्यङ्नासीत्’ इति वदेः? न खलु। सन्दर्भेऽस्मिन्निर्णयः समीचीनः परन्तु भाग्यवशादपेक्षितः परिणामो नालभ्यत। अतः परिणामान् वीक्ष्य निर्णयानामौचित्यमनौचित्यन्न निर्धारणीयम्। तर्हि कथं निर्धारणीयम्? निर्णयकाले याः सूचना या मतिश्चासन् किं सर्वा उपयुज्य निर्णयः कृतः? किं स निर्णय उत्तमपरिणामस्य सम्भावनामधिकतमाकुरुत? यद्यनयोः प्रश्नयोर्त्तरं ‘आम् / बाढम् / नूनम्’ अस्ति तर्हि त्वयोत्तमनिर्णयोकृतः - निर्णयस्य फलँव्विहाय।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें