सोमवार, 2 अप्रैल 2018

ई-पुस्तकमुत कागदपुस्तकम्?

अहं बहूनि पुस्तकानि पठामि। तस्माद्बृहन्मात्रायां पुस्तकानि क्रीणामि। दैवात् पुस्कतानां मूल्यैरहन्न क्लिश्ये परन्तु तथापि कश्चन द्वैधीभावो मां बाधते। पुस्तकेभ्यो गृहेऽवकाशस्यावश्यकता। बहूनि पुस्तकानि बृहदवकाशँय्याचन्ते। अधिकवस्तूनि न सङ्ग्रहणीयानीति मम चित्तवृत्तिः। अतः कस्माच्चित्कालात् पूर्वमहं ‘ई-पाठक’ (ई-रीडर) अक्रीणि। तस्मिन् कानिचन पुस्तकान्यपठम्। कापि समस्या नाबाधत परन्तु य आनन्दः कागदपुस्तकानि पठित्वान्वभवं तादृश आनन्द ई-पाठके पठित्वा नान्वभवम्। किं ब्रवीमि? ई-पाठके समस्तपुस्तकन्न दृश्यते केवलमेकः पृष्ठो दृश्यतेऽस्मात् सन्तुष्टिर्न प्राप्यते। अपि च पुस्तकपठनं समाप्य तत्पुस्तकमदृश्यमिव भवति यतः कागदपुस्तकमिव तस्य भौतिकास्तित्वं नास्ति। पुस्तकपठनात् केभ्यचिद्दिनेभ्यः पश्चात्तस्य विषये मनसि कोऽपि विचारो नागच्छति। परन्त्वेषा समस्या कागदपुस्तकेषु न दृश्यते। तानि पुस्तकनिधानयुपविशन्ति। काले काले तानि पुस्तकानि दृष्ट्वा तेषाँव्विषये चिन्तयामि। काले काले केषाञ्चित् पुस्तकानाङ्केचन भागाः पुनरपि पठामि। परन्तु प्रायेणैकवारमात्रं पठितानि सर्वाणि पुस्तकानि निधानयुपविशन्नवकाशमपि समाश्रयन्ति किमप्यन्यप्रयोजनन्न साधयन्ति। इदं मह्यन्न रोचते। गृहत्यजनसमये तानि सर्वाणि पुस्तकानि नूतनगृहं नेतव्यानि। किङ्करणीयम्? एकः समाधानः। पुरातनानि पुस्तकानि विक्रेतव्यानि। इदानीं पर्यन्तमहमिदङ्कदापि न कृतवान्। स्यान्नाम एतत्करणीयम्। परन्तु यदि विक्रयणङ्करणीयं तर्हि ‘ई-पुस्तके’ को दोषः? अपितु ‘ई-पुस्तकानि’ विक्रयणस्यावश्यकता नास्ति। हा हन्त! कीदृशो द्वैधीभावः? तव काद्यता - ई-पुस्तकान्युत कागदपुस्तकानि? केन कारणेन?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें