रविवार, 25 मार्च 2018

‘ए फर्स्ट क्लास कटैस्ट्रोफि’

ह्यर्डायनाहैनरीक्या लिखितं ‘ए फर्स्ट क्लास कटैस्ट्रोफि’ इति पुस्तकस्य मम पठनं समाप्तम्। १९८७ वर्षस्यौक्टोबरमासस्योनविंशतिदिनाङ्केऽमेरिक्यंशापणः २२.६% पतयामास। कथङ्किमर्थञ्च तत्पतनञ्जज्ञयित्यस्मिन् पुस्तके विवृतम्। बहृच्छोधकार्यङ्कृत्वा लेखिकयैतत्पुस्तकँल्लिखितम्। अंशापणस्य पतनस्य बहुवर्षेभ्यः पूर्वङ्किङ्किञ्जज्ञिरे तानि कथङ्कथमंशापणं पतनस्य समीपे निन्युरिति विस्तृतरूपेण दत्तमस्मिन् पुस्तके। १९८७ तमे वर्षे ‘डावजोन्स-इन्डेक्स’ केवलमुपद्विसहस्राङ्का डयते स्म। इदानीन्तु स उपपञ्चविंशतिसहस्राङ्का डयमानोऽस्ति। एतादृशमारोहणं मय्याश्चर्यञ्जनयति। अंशापणस्य विषये मया बहूनि पुस्तकानि पठितानि। सर्वाणि पुस्तकानि मया सम्पूर्णतयावगतानि परन्त्विदं पुस्तकं भिन्नम्। पुस्तके स्थाने स्थाने गहनविषया मया नावगताः। पुस्तकस्य न दोषः। ममैव दोषः। केचन गहनविषयाः पाठं पाठमेवागमनीयाः। तदर्थं भविष्यत्काले पुस्तकमिदं मया पुनः पठनीयम्।

शनिवार, 24 मार्च 2018

शैकल्टनः

अर्नेस्टशैक्लटनः को यदि न जानासि, ज्ञायताम्। स नेतृश्रेष्ठः। वीरोत्तमः सः। अर्नेस्टशैकल्टनोऽसाधरणः पुरुष आसीत्। १९१४ वर्षस्यौक्टोबरमासयिङ्ग्लेण्डदेशादेन्टार्टिकमहाद्वीपं तरणार्थं ‘एन्ड्योरेन्स’ इति नाम्ना नवि स सप्तविंशत्या जनैः सह जगाम। सा यात्रात्यन्ता दुर्भाग्यवती सिद्धा। १९१५ वर्षस्य जनवरीमासे शैकल्टनस्य नौर्हिमशिलासु मध्ये परिलग्निता बभूव। बहुमासेभ्यः सा नौर्हिमशिलास्ववस्थिता। हिमकारणान्नौः कुत्रापि गन्तुन्न शशाक। अस्मिन् काले न्यूने तापमाने शैकल्टनस्य नेतृत्वे सप्तविंशतिर्जनाः कथमपि जिजीवुः। १९१५ तमे वर्षे नवम्बरमासे हिमस्तेषां नावं पिपेष। सर्वे जना नावं तत्यजुः। सा समुद्रे निममज्ज। शैकल्टनस्तस्य सप्तविंशतिर्जनाश्च बहुमासेभ्यो समुद्रे हिमशिलासूषुः। ते भूमौ न ववृतिरे। तत्रापि शैकल्टनस्योत्तमनेतृत्वात् कोऽपि जनो न मृतो न व्रणितो बभूव। एतत्सर्वमेन्टार्टिकमहाद्वीपे प्रवृतँय्यत्रातिशीतं सर्वत्र सर्वदा बबाधे। तदानीँय्यदा ग्रीष्मकाले हिमशिला दुद्रुवुस्तदा शैकल्टनस्तस्य जनाश्च तिसृषु जीवनरक्षानौषु ‘एलिफेन्ट’ इति द्वीपञ्जग्मुः। परन्तु स द्वीपो निर्जन आसीत्। तस्मिन्द्वीपेऽधिकभोजनञ्जलमपि न ववृताते। तदानीं शैकल्टनः पञ्चभिरन्यैः सह ‘जेम्सकेयर्ड’ इत्येकस्यां नावि ‘साउथज्यौर्जिया’ इति द्वीपस्य दिशि ययौ। पञ्चदशदिवसेषु विंशत्यधिकसप्तशतान्नाविकक्रोशकाँस्तीर्त्वा ते भूमिप्राप्ताः। तत्रापि चण्डवातात्तेषां नौरापदि पतयामास। कथमपि ते भूमाववतेरुः। तदानीं षट्त्रिंशद्घंटाभ्यो हिमपर्वतेषु चलित्वा ते तस्मिन् द्वीपे कञ्चन सर्वकारीयकार्यालयं प्रापुः। साहाय्यार्थं स कार्यालयस्तदानीमन्यजनानाङ्कृते काचन नौरेलिफेन्टद्वीपं प्रेषयाञ्चकार । तथापि हिमवशान्नौरेलिफेन्टद्वीपं गन्तुं न शशाक। तृतीयप्रयासयेव सैलिफेन्टद्वीपं प्राप। अन्ततः १९१६ वर्षस्यागस्तमासे सर्वे जना रक्षिताः। कोऽपि न मृतः। केवलमेकजनो हिमध्वस्तात्तस्य हस्तं तत्याज। शैकल्टनस्य साहसं धैर्यं श्रमो नेतृत्वञ्चाद्वितीयाः। तस्मादस्माभिः प्रेरणा लम्भनीया।

रविवार, 18 मार्च 2018

रक्तचापः

सूचना - अहं न चिकित्सकः, न वैद्यः, न वैज्ञानिकः। अस्मिँल्लेखे दत्ता सूचना मदनुभवमेव दर्शयति। एषा सूचना वैद्यनिर्देशो न भावयितव्या।

आधुनिककाले बहवो जना उच्चरक्तचापेन पीड्यन्ते। जना रक्तचापस्य नियन्त्रणायौषधं सेवन्ते। तथापि तेषां रक्तचापः सामान्यो न भवति। उच्चरक्तचापस्य प्रमुखतो द्वे कारणे - व्यायामस्याभावो लवणयुतं भोजनञ्च। कतिपयेभ्यो वर्षेभ्यः पूर्वं मम रक्तचापोऽपि वर्धित आसीत्। उच्चरक्तचापेन मयापीड्ये। स १२०/९० अस्ति स्म। अद्यत्वे स १००/७५ अस्ति। अहङ्किमप्यौषधन्न सेवितवान्। केवलमिमे द्वे कार्ये कृत्वा रक्तचापो नियन्त्र्यक्रियत मया।

१. प्रतिदिनं न्यूनातिन्यूनँस्त्रिशन्निमेषेभ्यो वेगेन चलितव्यः।
२. पच्यमाने भोजनेऽल्पमात्रायाँल्लवणं प्रयोक्तव्यम्। खादति भोजने कदापि लवणन्न क्षेप्तव्यम्। भोजनोत्पीठिकाया लवणकूप्यपहरणीयम्।

शनिवार, 17 मार्च 2018

धनव्ययः

अहं सदैव धनव्ययन्नस्मीति भासते। प्रतिदिनङ्कश्चन व्ययः कर्तुमावश्यकतास्ति। कदाचिज्जलोर्जेन्धनाङ्कृते। कदाचित् पुत्रस्य कृते। गृहस्वामित्वङ्कारणाद्गृहैव बहवो व्ययाः करणीया मया। उदाहरणतो गतदिनेष्वेव नूतनाश्चुल्लिका, भोजनोष्णयन्त्रम् (माइक्रोवेवः), दूरदर्शनञ्चाक्रीणम्। मत्कुटुम्बकँव्विरलेन भोजनार्थमाहारगृहं बहिर्गच्छति। वयँव्व्यर्थेन वस्तून्यपि न क्रीणीमस्तथापि प्रतिदिनङ्किञ्चन धनं व्ययीकरोमि। अहन्तु भागवान् यद्दैवाद्मत्समीपे धनमस्ति परन्तु काले कालेऽहञ्चिन्तयामि दीनजनाः कथञ्जीवनँय्यापयन्तीति। धनाभावात् कीदृश्यः समस्यास्तैरनुभूयन्ते।

यत्र नार्यस्तु पूज्यन्ते

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥

सन्धिविच्छेदितरूपम् -
यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र ताः तु न पूज्यन्ते सर्वाः तत्र अफलाः क्रियाः॥

एतत्सुभाषितं नारीणां महत्वं द्योतयति।
प्रथमवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ क्रियेते तत्र स्वयं देवा निवसन्ति।
द्वितीवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ न क्रियेते तत्र सर्वाणि कार्याणि असफलानि भवन्ति।

आ प्राचीनकालान्नारी पुरुषस्याधीना तस्मिन्नाश्रिता च। यः पुरुषस्ताङ्कथयामास सा चकार। एवं मानवसमाज आसीत्। आधुनिककाले नार्यः स्वाधीनता तस्या महत्वञ्चास्माभिर्ज्ञेये ज्ञापयनीये च। तस्यायादरसम्मानौ देयौ। सा वस्त्विव न भावयितव्या। यद्यस्मिन् काले वयमेतत् कर्तुन्न शक्नुमस्तर्हि का प्रगतिः साधिता मानवैः?

रविवार, 11 मार्च 2018

पेयानि

अद्यत्वे बहूनि पेयान्युपलब्धानि। अधिकतमा जना अचिन्तया तानि पिबन्ति। तेषाँव्विषये चिन्तनार्हङ्किमस्तीति पृच्छ्येत। वदामि। कस्यापि पेयस्य पानात् पूर्वं ‘अमुष्मिन् पेये कियती शर्करा वर्तते?’ इति प्रच्छनीयम्। शर्करा वपुषेऽतिहानिकारिण्यस्ति। सा मधुमेहस्य कारणं भवेत्। सद्य शोधकार्याणि दर्शयन्ति यद्बह्योऽन्या हानयोऽपि तया क्रियन्ते। मस्तिष्के हृदये चापि हानिकारकः प्रभावस्तया क्रियते। तया दन्ता यकृच्चापि क्षीयन्ते। शर्करास्थिषु वेदना जनयति। शर्करायामूर्जा वर्ततेऽतः सा वपुषस्स्थूलत्वस्य कारणमपि भवेत्। यद्यपि शर्करायामूर्जा वर्तते तथापि तस्याः सेवनं पश्चादलसमनुभूयते। ये जनाः शर्करायुक्तानि पेयान्युपसेवन्ते तयिमाः सर्वा हानीरनुभवन्ति। अतः शर्करायुक्तानि पेयानि न पातव्यानि। तर्हि किं पातव्यम्? सुलभोत्तरः। यानि पेयानि सहस्रवर्षाः पूर्वमुपलब्धानि तान्येव पातव्यानि। तानि कानि? जलम्, क्षीरम्, नारिकेलजलम्, फलरसश्चायकाफीपेये च। मदिरापि पातुं शक्यते परन्तु लेश एव। मदिराफलरसौ वर्जयित्वामीषु पेयेषु शर्करा न्यूना। मदिराफलरसौ केवलमल्पमात्रायां प्रयोक्तव्यौ। फलरसः परित्यज्य तत्स्थाने फलानि खादनीयानि। पीयमानानि पेयानि नियन्त्रीकृत्य वपुषो बहवा रोगानपगमयितुं शक्यन्ते।

आयकरः

आयकरोऽद्यतनस्य जीवनस्य कटुसत्यमस्ति। कस्मायप्यायकरो न रोचते। स्यान्नाम सर्वकाराय रोचते यतः स प्रजाभ्यो धनं प्राप्नोति। मह्यमायकरा रोचतयिति तु नाहङ्कथयामि परन्त्वायकरं प्रति मम मनसि द्वेषभावना न वर्तते। प्रतिवर्षमायकरः काचन गणितसमस्या प्रस्तौति। सर्वान् नियमान् पालयन्नपि कथं न्यूनतमायकरो मया दातव्यमिति। अवैधविध्या विना सर्वकाराय कथं न्यूनतं धनं देयमिति। असौ समस्या मां रुचिकारिणी भासते। न्यूनतमायकरं दानाय वर्षस्यादावेवास्मिन् विषये चिन्तनीयम्। योजना रचयितव्या। योजना कथं प्रचलतीति वर्षे काले काले बहुवारङ्गणयितव्यम्। आवश्यकतास्ति चेद्योजना परिवर्तनीया। योजनयैव धनं परिरक्षितुं शक्यते वृथा चाधिकधनं न दीयेत। योजनां सज्जीकरणे कश्चन परिश्रम आवश्यकः। ये जनाः परिश्रमभयाद्योजना न रचयन्ति ते प्रतिवर्षमायकरेऽधिकधनं ददति - प्रायर्बहुसहस्ररुप्यकाणि । ते जना एवेतस्ततोऽल्पधनं परिरक्षितुँय्यायत्यन्ते। सोल्लुण्ठनमस्ति ननु?

रविवार, 4 मार्च 2018

युयुत्सुः साहाय्यमपेक्षते

कुरुक्षेत्रे युद्धं प्रचलति। युयुत्सू भीमदुर्योधनौ स्पर्धेते। तौ परस्परमभिमुखमवतिष्ठेते। तदा भीमभयाद्दुर्योधनोऽधस्तेन दत्तेन मार्गेण पलायते।

स पञ्चाशद्मीटरपरिमितङ्कौबेर्यां धावति। ततः पञ्चाशद्मीटरपरिमितमैशान्याम्। ततः पञ्चाशद्मीटरयावद्याम्याम्। ततः स नैर्ऋत्यां पलायते।

दिङ्मूढतावशाद्भीमसेनः स्पर्धास्थानात् पञ्चाशद्मीटरयावद्वारुण्याङ्गच्छति। ततः पञ्चाशद्मीटरनिमितमाग्नेय्याम्। ततश्शतमीटरपरिमितं माहेन्द्र्याम्।

दुर्योधनस्य मार्गे दुर्योधनं मेलनार्थं वायव्यां भीमसेनेन कियद्दूरङ्गम्येत? उभयोर्वेगावनवधेयौ।