रविवार, 18 फ़रवरी 2018

दिल्ल्या दशा

सद्यो भारतराजधान्यां दिल्ल्याङ्कानिचन दिनान्युषित्वा प्रत्यागच्छम्। दिल्ल्यां महोन्नतिं दरीदृश्यते। बहवो मार्गसेतवो दृश्यन्ते। रेलयानानि सहस्रा जनाः प्रतिक्षणं नगरस्य नाना भागेषु नयन्ति। प्रायः सर्वे नगरमार्गा अपि रन्ध्ररहिताः। नाना मार्गसेतोः कारणाद्मार्गेषु वाहनसङ्केता अपि न्यूना जाताः। एतत्सर्वं दृष्ट्वा मनो मोमुद्यते। यद्यपि दिल्ल्यां प्रगतिः स्पष्टतया दृश्यते तथापि केषुचिद्विषयेषु दिल्ली क्षायन्तीति तु लक्षितम्। दिल्लीवासीभिः सह जल्पनङ्कृत्वा मया ज्ञातँय्यन्नगरेऽपराधा वर्धमानाः सन्ति। द्विचक्रिकायामुपविशद्भिः पुरुषैर्महिलानाङ्कण्ठेभ्यः स्वर्णहारा बलेन जरीगृह्यन्ते । हस्तयोः स्थिता जङ्गमदूरवाण्यपि धृषतया गृह्यते। महिलानां बालिकानाञ्च बलात्कारा अपि वर्धमानाः सन्ति। एतच्छ्रुत्वा मनश्चेखिद्यते। मार्गा यातायातेन सम्मर्दाः। पदचारिभिर्मार्गेषु चलने बहूनि कष्टान्यनुभूयन्ते । वाहनातिशयस्य कारणाद्वायुरपि प्रदूषितः। यातायातसम्मर्दनाद्मार्गेषु वाहनचालकेष्वाक्रोशो दृश्यते कटुवचनान्यपि श्रूयन्ते। अनादराशिष्टव्यवहाराश्च व्याप्ताः। केवलं भव्यप्रासादा महासेतवो नगरं महान्न कारयन्त्यपितु वस्तुतो नगरवासीनां शिष्टाचारोऽपि नगरस्य शोभाया महत्वपूर्णभाग इति दिल्लीवासिभिर्न विस्मर्तव्यम्।

2 टिप्‍पणियां:

  1. भवतः देहलीवर्णनं समीचीनम् अस्ति। तथापि मन्ये यावत् अपराधेभ्यः अवसरः अस्ति तावत् अपराधाः न भवन्ति इति। अपराधस्य परं रक्षिपुरुषाः अपराधिनं निगडितं न शक्नुवन्ति इति सर्वे जानन्ति एव तथापि अतिन्यूनाः जनाः अपराधं कुर्वन्ति। भारतस्य पामरजानाः निर्धनजनाः च खलु पूजनीयाः इति अहं मन्ये।

    जवाब देंहटाएं
    उत्तर
    1. भवता युक्तमुक्तम्। प्रायेण सर्वे जनाः स्वाभाविकतया सज्जना एव। केचन दुर्जनाः सर्वं नगरं ग्लापयन्ति। भवत आशावादी चित्तप्रवृत्तिः श्लाघनीया।

      हटाएं