मंगलवार, 20 फ़रवरी 2018

भाग्यम्

रविर्विषण्ण आसीत्। तस्य जीवनस्य चक्रं सम्यकतया न प्राचलत्। जीवने कुत्र स विमार्गञ्जग्राह तेन न ज्ञातम्। कदापि स न दुर्व्यसनान्यपालयत्। कदापि साकूतङ्कस्यचिद्धानिर्नैष्यत नाक्रियत च तेन। तथापि दुर्भाग्यं तमालिङ्गतवान्। वर्षपूर्वङ्कार्यालयात् स निरगमयत्। “धनाभावात् केचन कर्मकरिणो गन्तव्याः” इति तस्य पर्यवेक्षको बभाण। अष्टभ्यो मासेभ्यः स नूतनोद्योगमन्वेषितवान् परन्तु कुत्रापि नियुक्तिर्न बभूव। तदानीं “उद्योगं प्राप्य धनमानयान्यथा सपुत्रं मातुर्गृहङ्गमिष्यामि” तस्य भार्योवाच। मधुरवचनान्युक्तवानुरोधङ्कृत्वा च यथा तथा स तस्या गमनं स्थगयितवान्। सा द्वाभ्यां मासाभ्यामतिष्ठत् परन्तु तदनन्तरं सा सपुत्रं मातुर्गृहञ्जगाम। किङ्कर्तव्यतामूढतया स पीडितो बभूव। इदानीन्तु स एकाकी निवसति स्म। उद्योगो नासीत्। कुटुम्बोऽपि नासीत्। "एतादृशस्य जीवनस्य कोऽस्तित्व:? आत्महत्यैव मम विकल्पः।" - सोऽचिन्तयत्।

मध्यरात्रम्। गाढतिमिरः सर्वासु दिक्षु प्रसृतः। नदीसेतौ स्थित्वाधो वेगेन प्रवहज्जलं रविः पश्यन्नासीत्। तदानीङ्कश्चन जनस्तस्य स्कन्धं स्पृष्टवान्। रविः परीवर्त्य तमपश्यत्। किमप्योक्तेन विना स पुरुषस्तस्य हस्ते किञ्चिद्वस्तु दत्त्वापलायत्।

“अयि भोः! तिष्ठतु!” रविस्तमाहूतवान् परन्तु स पुरुषो लघुक्षणे तमस्यलोलुप्यत।

रविः स्वस्य हस्तमपश्यत्। हस्ते किञ्चिद्वार्तापत्रमासीत्। रविस्तदुद्घाटितवान्। वार्तापत्रे परश्वस्तनस्य दिनस्य दिनाङ्क आसीत्। ‘विस्मयजनकँव्वार्तापत्रमेतद्। तस्मिन् कथं परश्वस्तनो दिनाङ्को भवेत्?’ रविरचिन्तयत्। वार्तापत्रपाणिः स गृहमागच्छत्। विद्युतद्वीपस्य प्रकाशे रविर्वार्तापत्रमपठत्। तस्मिन्नागामिदिने भविष्यन्त्या अश्वद्यूतक्रीडायाः परिणामा आसन्। परिणामेषु कोऽश्वो विजयीत्यपि लिखितम्। महदाश्चर्यं सोऽनुभूतवान्। 'कथमेतत् सम्भवम्? श्वोऽश्वद्यूतक्रीडाङ्गत्वा द्रक्ष्यामि यद्येषोऽश्वो विजयी भवेत्।' - स सङ्कल्पितवान्। अग्रिमे दिने सोऽश्वद्यूतक्रीडाक्षेत्रङ्गत्वा विजेष्यमाणेऽश्वे तस्य सम्पूर्णधनं पणितवान्। सोऽश्वो विजेता बभूव। वार्तापत्रे दत्तः परिणामः साधुः! घोरधनं स जितवान्। ‘इदानीन्तु मम सर्वाः समस्या अपगच्छेयुः। भार्यापुत्रावपि गृहं पुनरागच्छेताम्।’ - रविश्चिन्तितवान्। तस्य हर्षोऽसीमितः। प्रभूतधनं प्राप्य स स्वगृहं प्रस्थितवान्। भाटकयानयुपविशन् स वार्तापत्रं पुनरुद्घाटितवान्। अश्वद्यूतक्रीडायाः परिणामस्याधो दत्तायाँव्वार्तायां तस्य दृष्टिः पतिता। वार्तेयम् - ‘अश्वद्यूतक्रीडायां प्रभूतधनँव्विजेता वाहनापघाते मृतः’।

“वाहनचालक! वाहनं स्थगय...” रविररोरूयत।

परन्तु तदानीं पर्यन्तङ्घोरविलम्बो बभूव । तस्य भाटकवाहनं प्रतिदिश आगच्छँष्ट्रकयानञ्च समाघातवन्तौ।

2 टिप्‍पणियां:

  1. कथं द्वे दुःखान्तके कथे? रविणा जितम् इति वार्ता।

    जवाब देंहटाएं
    उत्तर
    1. आगामिकथावश्यं सुखान्तिका भविष्यतीत्याश्वासयामि।

      हटाएं