शनिवार, 24 फ़रवरी 2018

मङ्गलगामकौ

“भव्यं दृश्यम्। मङ्गलग्रहो मया बहुवारँव्वाननिरीक्षण्या सङ्गणकफलके च दृष्टं परन्तु प्रत्यक्षदर्शनस्यानन्दोऽद्वितीयः।” - अन्तरिक्षयानं मङ्गलग्रहेऽवतारयितुं सन्नाहाः कुर्वन् भानुकुमारोऽवदत्।

“सत्यमुक्तम्। मङ्गलग्रहोऽतिसुन्दरः। भवाँस्तु शाश्वतँव्विश्वविख्यातो यशस्वी च भविष्यति। नीलार्मस्ट्रौंगादपि महत्तरा प्रसिद्धिः प्राप्स्यति। ‘भानुकुमारः - मङ्गलग्रहे प्रथममानवः’ ईदृशी वार्ता पृथ्व्याः सर्वेषु वार्तापत्रेषु पठिष्यते।” - भानोः सहान्तरिक्षयात्री हरिप्रसादो याननियन्त्रणसङ्गणके कार्यङ्कुर्वन् भानुमुद्दिश्यावदत्।

“भवानपि मङ्गलग्रहे द्वितीयमानवो भविष्यति। एषापि न लघुसिद्धिः।”

“हा! भवान् मङ्गलग्रहे प्रथममवतरिष्यति तस्मादेतद्वदति। जगत् केवलं प्रथममानवं स्मरति। कोऽपि द्वितीयमानवस्य नाम न स्मरिष्यति। किं भवान् वक्तुं शक्यते चन्द्रमसि द्वितीयमानवः कः?” हरिप्रसादः प्रत्युत्तरः प्राददात्।

“आवां पृथ्व्या द्वाविंशतिः कोटयः किलोमीटरदूरं स्वः। संपर्कविलम्बवशात् पृथ्व्याः साहाय्यँल्लब्धुन्न शक्यते। आवाभ्यां सर्वं यथाव्यवस्थितङ्कर्तव्यम्। एतत् स्थानं द्वेषीर्षाभ्यां नास्ति। आवां मानवभावना न्यूनीकृत्य केवलमावयोः कर्तव्यपालनङ्करणीयम्। योजनानुसारेण सर्वाणि कार्याणि करणीयान्येतदावयोः कर्तव्यम्।”

“आम्। आम्। मया ज्ञायते। मम कर्तव्यङ्किं भवता स्मारयितुमावश्यकता नास्ति।” - हरिर्विरोधं प्रादर्शयत्। “अन्तरिक्षवर्मणी सन्नाहाय परङ्कक्षे गच्छामि। सम्प्रति तु एतन्मम कर्तव्यम्।” एतदुक्त्वा हरिः परङ्कक्षेऽगच्छत्।

विंशतिनिमेषा अतीताः। तदानीं परङ्कक्षाद्धावन् हरिरागत्य भानुमवदत् - “भानो! अन्तरिक्षवर्मणी निरीक्षमाणे मया दृष्टँय्यद्भवतोऽन्तरिक्षवर्मणि छिद्रमस्ति!”

“किङ्कथयति भवान्? एतत् कथं शक्यते? पृथ्व्यां सर्वं सूक्ष्मतया नीरिक्षितं। तदानीन्तु छिद्रन्नास्ति! अधुना छिद्रङ्कुत आगतम्?”

“अहन्न जाने।” स्कन्धावुत्क्षिप्य हरिः स्पष्ट्यकरोत्।

भानुरश्रद्धेयतया हरिमपश्यत्। तस्य चक्षुषी क्रोधेन रक्तवर्णिते जाते।

“सम्प्रति किङ्कर्तव्यमावाभ्याम्?” हरिरपृच्छत्।

“योजनानुसारेणैवावाभ्यामग्रे गमनीयौ। यत् पूर्वं परिकल्पितं तदेव करणीयम्। आवयोर्वपुषी समाकारे। अतोऽहं तवान्तरिक्षवर्म धृत्वा मङ्गलग्रहेऽवतरिष्यामि। यदाहं प्रत्यागमिष्यामि तदा भवान् गन्तुं शक्यते।” - भानुना प्रस्तावो दत्तः।

“नैवं शक्यते। भवतो वर्म समीचीनं नास्त्यिदं भवतो दौर्भाग्यम्। प्रथममहङ्गमिष्यामि।”

“हरिप्रसाद! अहन्न मूर्खः। छिद्रङ्कुत उत्पन्न अहञ्जाने। त्वयैवैतद्दुष्कर्म कृतम्।” भानुरगर्जत्।

“भानो! केनाधारेण त्वं मय्येष दोष आरोपयसि? एतन्न सत्यम्।” हरिर्विरोधः कृतवान्।

“असूया त्वां बाधते। मङ्गगलग्रहे कतरः प्रथममवतरिष्यति पृथ्व्यामेवेति यदृच्छयान्तरिक्षसंस्थया निश्चितङ्कृतं त्वञ्जानासि। अस्तु। यथेच्छा कुरु। त्वमेव प्रथमङ्गच्छ। त्वमेव मङ्गलग्रहे प्रथममानवो भविष्यति।” भानुरुक्तवान्।

यानं मङ्गलग्रहेऽवतार्य हरिर्यानद्वारमुद्घाट्य मङ्गलग्रहे तस्य पादस्स्थापितवान्। तस्य मनोऽमोमुद्यत। “अहं मङ्गलग्रहे प्रथममानवोऽभूवम्।” सोऽमोदत। हरिर्यानात् किञ्चिद्दूरे गत्वा वैज्ञानिकप्रयोगा आरब्धवान्। अनन्तरं भानुर्यानयुपविशन् क्रोधेनासीदत्। स हरयेऽकुप्यत्। तदानीं स यानसङ्गणकफलके दृष्टवान् यद्भयङ्करं सिकताचण्डमरुदागच्छन्नासीत्। सङ्गणको मरुतो वेगङ्गणयित्वापत्सङ्केतोऽनादयत्। सङ्गणकफलकमदर्शयद्यत् सिकताचण्डमरुत् त्रिंशन्निमेषा अनन्तरँय्यानङ्घोरहानिः कुर्यात्। ततः पूर्वं प्रस्थानमावश्यकम्। भानुराकाशवाण्यां हरिं सम्पर्कः कृतवान्।

“हरे! सिकताचण्डमरुदागच्छन्नस्ति। सकृत् प्रस्थानङ्करणीयम्। यानपर्यन्तं पुनरागमनाय कियान् समय आवश्यकः?”

“अहँय्यानात् पञ्चशतमीटरदूरे स्थितः। विंशतिनिमेषा आवश्यकाः। प्रतीक्षस्व।” हरिरसूचयत्।

“एतावान् समयो नास्ति। सङ्गगणकं दर्शयति सिकताचण्डमरुद्यानं पञ्चदशनिमेषेषु तोत्स्यति। यानङ्घोरहानिरपेक्ष्यते। ततः पूर्वमावाङ्गन्तव्यौ। शीघ्रमागच्छ।” भानुरसूचयत्।

“भानो! कृपया मया विना मा गच्छ।” हरिः प्रार्थयत।

“त्रयोदशनिमेषेभ्योऽहं भवते प्रतीक्षे। तत्पश्चान्मया गन्तव्यम्। अन्यः कोऽपि न विकल्पः। ततः पूर्वं धावित्वागच्छ।” भानुरवदत्।

त्रयोदशनिमेषा अतीताः। सिकताचण्डमरुद्यानं सप्तदशनिमेषाः पश्चात् तोत्स्यतीति सङ्गणफलकं दर्शयन्नासीत्।

“हरे! भवान् कुत्रास्ति?”

“अहं प्रतियानं धावामि। पञ्चनिमेषा अनन्तरँय्यानं प्राप्नुयाम्। प्रतीक्षस्व।”

“क्षमस्व मित्र। सिकतामरुत् सम्प्रति यानं तोत्स्यति। मया गन्तव्यम्। अन्यथा भवता सहाहमपि मरिष्ये। भवतः क्षमा याचे।” इति कथयित्वा भानुर्यानस्य द्वारं पिधाय यन्त्रं प्रारभ्य हरिणा विना मङ्गलग्रहमत्यजत्।

"हरे! त्वमेव मङ्गलग्रहे प्रथमो मानवोऽभूस्त्वमेव मङ्गलग्रहे प्रथमो मरिष्यन् मानवो भविष्यसि।" पृथ्व्या दिशि गच्छन् भानुश्चिन्तितवान्।

"बुभुक्षामि। किञ्चिदभोजनङ्खादेयम्।" इति चिन्तयन् भानुर्भोजनपोटलिकाँल्लब्ध्वा तामुद्घाटितवान्। “एतत् किम्? भोजनपोटलिकायां बहूनि छिद्राणि दृश्यन्ते। कुत आगतानि छिद्राणि?” सोऽचिन्तयत्। तदानीं स भूतले धावन्तं मूषकं दृष्टवान्। “अहो दौर्भाग्यम्! दुष्टमूषका मङ्गलग्रहं पर्यन्तं मानवमनुसृतवन्तः!” भानुश्चीतकृतवान्। तत्क्षणे तेन किङ्कृतमिति विचिन्त्य तस्य मनो विषादे न्यमज्जत्। "एतन्मया किङ्कृतम्? कथमपि हरिरानेतव्यः।" इति निश्चित्य भानुकुमारो यानं मङ्गलग्रहस्य दिशि प्रत्यावर्तत।

मंगलवार, 20 फ़रवरी 2018

भाग्यम्

रविर्विषण्ण आसीत्। तस्य जीवनस्य चक्रं सम्यकतया न प्राचलत्। जीवने कुत्र स विमार्गञ्जग्राह तेन न ज्ञातम्। कदापि स न दुर्व्यसनान्यपालयत्। कदापि साकूतङ्कस्यचिद्धानिर्नैष्यत नाक्रियत च तेन। तथापि दुर्भाग्यं तमालिङ्गतवान्। वर्षपूर्वङ्कार्यालयात् स निरगमयत्। “धनाभावात् केचन कर्मकरिणो गन्तव्याः” इति तस्य पर्यवेक्षको बभाण। अष्टभ्यो मासेभ्यः स नूतनोद्योगमन्वेषितवान् परन्तु कुत्रापि नियुक्तिर्न बभूव। तदानीं “उद्योगं प्राप्य धनमानयान्यथा सपुत्रं मातुर्गृहङ्गमिष्यामि” तस्य भार्योवाच। मधुरवचनान्युक्तवानुरोधङ्कृत्वा च यथा तथा स तस्या गमनं स्थगयितवान्। सा द्वाभ्यां मासाभ्यामतिष्ठत् परन्तु तदनन्तरं सा सपुत्रं मातुर्गृहञ्जगाम। किङ्कर्तव्यतामूढतया स पीडितो बभूव। इदानीन्तु स एकाकी निवसति स्म। उद्योगो नासीत्। कुटुम्बोऽपि नासीत्। "एतादृशस्य जीवनस्य कोऽस्तित्व:? आत्महत्यैव मम विकल्पः।" - सोऽचिन्तयत्।

मध्यरात्रम्। गाढतिमिरः सर्वासु दिक्षु प्रसृतः। नदीसेतौ स्थित्वाधो वेगेन प्रवहज्जलं रविः पश्यन्नासीत्। तदानीङ्कश्चन जनस्तस्य स्कन्धं स्पृष्टवान्। रविः परीवर्त्य तमपश्यत्। किमप्योक्तेन विना स पुरुषस्तस्य हस्ते किञ्चिद्वस्तु दत्त्वापलायत्।

“अयि भोः! तिष्ठतु!” रविस्तमाहूतवान् परन्तु स पुरुषो लघुक्षणे तमस्यलोलुप्यत।

रविः स्वस्य हस्तमपश्यत्। हस्ते किञ्चिद्वार्तापत्रमासीत्। रविस्तदुद्घाटितवान्। वार्तापत्रे परश्वस्तनस्य दिनस्य दिनाङ्क आसीत्। ‘विस्मयजनकँव्वार्तापत्रमेतद्। तस्मिन् कथं परश्वस्तनो दिनाङ्को भवेत्?’ रविरचिन्तयत्। वार्तापत्रपाणिः स गृहमागच्छत्। विद्युतद्वीपस्य प्रकाशे रविर्वार्तापत्रमपठत्। तस्मिन्नागामिदिने भविष्यन्त्या अश्वद्यूतक्रीडायाः परिणामा आसन्। परिणामेषु कोऽश्वो विजयीत्यपि लिखितम्। महदाश्चर्यं सोऽनुभूतवान्। 'कथमेतत् सम्भवम्? श्वोऽश्वद्यूतक्रीडाङ्गत्वा द्रक्ष्यामि यद्येषोऽश्वो विजयी भवेत्।' - स सङ्कल्पितवान्। अग्रिमे दिने सोऽश्वद्यूतक्रीडाक्षेत्रङ्गत्वा विजेष्यमाणेऽश्वे तस्य सम्पूर्णधनं पणितवान्। सोऽश्वो विजेता बभूव। वार्तापत्रे दत्तः परिणामः साधुः! घोरधनं स जितवान्। ‘इदानीन्तु मम सर्वाः समस्या अपगच्छेयुः। भार्यापुत्रावपि गृहं पुनरागच्छेताम्।’ - रविश्चिन्तितवान्। तस्य हर्षोऽसीमितः। प्रभूतधनं प्राप्य स स्वगृहं प्रस्थितवान्। भाटकयानयुपविशन् स वार्तापत्रं पुनरुद्घाटितवान्। अश्वद्यूतक्रीडायाः परिणामस्याधो दत्तायाँव्वार्तायां तस्य दृष्टिः पतिता। वार्तेयम् - ‘अश्वद्यूतक्रीडायां प्रभूतधनँव्विजेता वाहनापघाते मृतः’।

“वाहनचालक! वाहनं स्थगय...” रविररोरूयत।

परन्तु तदानीं पर्यन्तङ्घोरविलम्बो बभूव । तस्य भाटकवाहनं प्रतिदिश आगच्छँष्ट्रकयानञ्च समाघातवन्तौ।

रविवार, 18 फ़रवरी 2018

दिल्ल्या दशा

सद्यो भारतराजधान्यां दिल्ल्याङ्कानिचन दिनान्युषित्वा प्रत्यागच्छम्। दिल्ल्यां महोन्नतिं दरीदृश्यते। बहवो मार्गसेतवो दृश्यन्ते। रेलयानानि सहस्रा जनाः प्रतिक्षणं नगरस्य नाना भागेषु नयन्ति। प्रायः सर्वे नगरमार्गा अपि रन्ध्ररहिताः। नाना मार्गसेतोः कारणाद्मार्गेषु वाहनसङ्केता अपि न्यूना जाताः। एतत्सर्वं दृष्ट्वा मनो मोमुद्यते। यद्यपि दिल्ल्यां प्रगतिः स्पष्टतया दृश्यते तथापि केषुचिद्विषयेषु दिल्ली क्षायन्तीति तु लक्षितम्। दिल्लीवासीभिः सह जल्पनङ्कृत्वा मया ज्ञातँय्यन्नगरेऽपराधा वर्धमानाः सन्ति। द्विचक्रिकायामुपविशद्भिः पुरुषैर्महिलानाङ्कण्ठेभ्यः स्वर्णहारा बलेन जरीगृह्यन्ते । हस्तयोः स्थिता जङ्गमदूरवाण्यपि धृषतया गृह्यते। महिलानां बालिकानाञ्च बलात्कारा अपि वर्धमानाः सन्ति। एतच्छ्रुत्वा मनश्चेखिद्यते। मार्गा यातायातेन सम्मर्दाः। पदचारिभिर्मार्गेषु चलने बहूनि कष्टान्यनुभूयन्ते । वाहनातिशयस्य कारणाद्वायुरपि प्रदूषितः। यातायातसम्मर्दनाद्मार्गेषु वाहनचालकेष्वाक्रोशो दृश्यते कटुवचनान्यपि श्रूयन्ते। अनादराशिष्टव्यवहाराश्च व्याप्ताः। केवलं भव्यप्रासादा महासेतवो नगरं महान्न कारयन्त्यपितु वस्तुतो नगरवासीनां शिष्टाचारोऽपि नगरस्य शोभाया महत्वपूर्णभाग इति दिल्लीवासिभिर्न विस्मर्तव्यम्।

शनिवार, 17 फ़रवरी 2018

विदेशयात्रा

विदेशयात्रा समाप्ता। स्वगृहं प्रत्यागत्य हर्षितोऽहम्। विदेशयात्रा मय्यानन्दोऽजनयत्। लण्डननगरं भव्यम्। नाना प्राचीनप्रासादैस्तच्छोभते। दीर्घ इतिहासस्तस्य। प्राचीनकाले राजाना राज्ञ्यश्च कथं बभूवुरिति द्रष्टुं शक्यते। विविधदेशेभ्यः पर्यटकास्तस्मिन् नगरे विहरन्ति। वीथीषु विविधा भाषाः श्रूयन्ते। बहवो भाषाः पूर्वयूरोपमहाद्वीपस्येति मयोहितम्।

भारतयात्रापि रोमाञ्चका। ताजमहलभवनमतिसुन्दरम्। तत्र सप्ताहान्ते नागच्छाम तस्मात् ताजमहलभवनञ्जनसम्मर्दो नासीत्। दैवात् कुत्रापि प्रतीक्षासमयो न दीर्घः। भारतदेशस्येतिहासोऽपि लण्डननगरमिव दीर्घः। बहवो राजानस्तत्रापि रराजुः। कुतुबमिनारताजमहलाशोकस्तम्भा अतिप्राचीना रचनाः। मम भार्यापुत्रौ त्वैदमप्राथम्येन भारतमगच्छताम्। तावुत्सुकावास्ताम्। कुत्रापि मम पुत्रो नारोदीत्। दीर्घविमानयात्रायामपि स प्रौढा इवाचरणमकुरुत। प्रत्यागत्य सम्प्रति तु सामान्यदिनचर्यारप्स्यते।