रविवार, 14 जनवरी 2018

उपानहौ

अद्य निर्मनस्कतयोपानहावक्रेषि। वस्तूनि क्रयणे ममास्कतिर्नास्ति। वस्तूनि गृहे मस्तिष्के च समयावकाशौ समाश्रयन्ति। मत्समीपे त्रीण्युपानह्युगलानि पूर्वमेव सन्ति। तथापि यात्रायै नूतनोपानह्युगलस्यावश्यक्तासीत्। एकयुगलं तु क्षयानमस्ति। तत्तु दशवर्षेभ्यः पूर्वमक्रीणि। द्वितीययुगलमपि सप्तवर्षेभ्यः पूर्वमक्रीणि। तत् साध्वावस्थायामस्ति परन्तु तद्धृत्वाधिकदूरञ्चलितुन्न शक्यते यतस्ते उपानहावौपचारिकस्थितौ धारयितुं स्तः। तृतीययुगलं स्वास्थायामस्ति। तस्मिन् बृहद्दूरमपि चलितुं शक्यते। परन्तु तस्य वर्णश्श्वेतः। ते उपानहावपि केभ्यश्चिद्वर्षेभ्यः पूर्वमलभे। इदानीन्तु तयोः श्वेतवर्णश्श्यामायते। क्षालङ्क्षालमपि स श्वेतवर्णस्तु कृष्णायते। ते गृहोपयोक्तुमेवार्हतः। गृहाद्बहिस्ते न मयि शोभेते। अतोऽनन्यगतिकतया नूतनोपानहोः क्रयणमपि मम विकल्पोऽभूत्। अतस्ते अद्याक्रेषि। ते आगमिष्यमानायाँय्यात्रायाङ्कार्यालये चोपयोगिनौ साधयिष्यतः।

2 टिप्‍पणियां:

  1. मन्ये भवान् यावत् स्वास्थ्याय आवश्यकम् अस्ति तावत् भ्रमणं न करोति यतो हि भवतः उपानहौ दशवर्षपर्यन्तं तिष्ठतः इति। यत् उपानहयोः क्रयणं रक्षति तत् औषधेः व्ययति।

    जवाब देंहटाएं
    उत्तर
    1. नैवम्। अमीषु दशवर्षेषु द्वित्रेषु वर्षेषु प्रतिदिनं दशसहस्रपदानि कृतवानहम्। सद्यो ट्रैडमिले १-२ मीलं चरामि।

      हटाएं