रविवार, 14 जनवरी 2018

उपानहौ

अद्य निर्मनस्कतयोपानहावक्रेषि। वस्तूनि क्रयणे ममास्कतिर्नास्ति। वस्तूनि गृहे मस्तिष्के च समयावकाशौ समाश्रयन्ति। मत्समीपे त्रीण्युपानह्युगलानि पूर्वमेव सन्ति। तथापि यात्रायै नूतनोपानह्युगलस्यावश्यक्तासीत्। एकयुगलं तु क्षयानमस्ति। तत्तु दशवर्षेभ्यः पूर्वमक्रीणि। द्वितीययुगलमपि सप्तवर्षेभ्यः पूर्वमक्रीणि। तत् साध्वावस्थायामस्ति परन्तु तद्धृत्वाधिकदूरञ्चलितुन्न शक्यते यतस्ते उपानहावौपचारिकस्थितौ धारयितुं स्तः। तृतीययुगलं स्वास्थायामस्ति। तस्मिन् बृहद्दूरमपि चलितुं शक्यते। परन्तु तस्य वर्णश्श्वेतः। ते उपानहावपि केभ्यश्चिद्वर्षेभ्यः पूर्वमलभे। इदानीन्तु तयोः श्वेतवर्णश्श्यामायते। क्षालङ्क्षालमपि स श्वेतवर्णस्तु कृष्णायते। ते गृहोपयोक्तुमेवार्हतः। गृहाद्बहिस्ते न मयि शोभेते। अतोऽनन्यगतिकतया नूतनोपानहोः क्रयणमपि मम विकल्पोऽभूत्। अतस्ते अद्याक्रेषि। ते आगमिष्यमानायाँय्यात्रायाङ्कार्यालये चोपयोगिनौ साधयिष्यतः।

शनिवार, 13 जनवरी 2018

विटामिन-डी

कतिभ्यो दिनेभ्यः प्रतिदिनमहं ‘विटामिन-डी’ औषधं सेवे । अस्माद्मम मनश्शान्तिर्वर्ततयिति भासते । रात्रौ मन्मस्तिष्के विचारा न्यूना जाता। मस्तिष्को विचारेषु सम्मर्दो न भवति। अमुष्मादहं रात्रावधिका होराः शयमानोऽस्मि। अहमाश्चर्यचकितोऽस्मि यत् ‘विटामिन-डी’ एतादृशं परिवर्तनङ्कर्तुं शक्नोति। सम्भवतो मयि ‘विटामिन-डी’ हीनतासीत्। कानिचन शोधकार्याणि दर्शयन्ति यत् ‘विटामिन-डी’ मस्तिष्कस्य निद्रायाश्च स्वास्थायानिवार्यं स्यात्। इदानीन्त्वेतद्मां सत्यं भासते। अद्यत्वे जनाः (अमीष्वहमपि समाविष्टः) सूर्यप्रकाशेऽधिकसमयो न यापयन्ति। तस्मात् तेषु गात्रेषु ‘विटामिन-डी’ हीनता जाता। मम विषये त्वेतदवश्यं सत्यम्। अहं सूर्यप्रकाशे बहुसमयो न यापयामि। ‘विटामिन-डी’ सेवित्वाद्यत्वेऽहं षषसप्ता होराः शययिति महान् सन्तोषजनकम्। दिनेऽप्यहं श्रान्तो न भवामि। सोत्साहं दैनन्दिनकार्याणि करोमि।