शनिवार, 25 नवंबर 2017

अलुक्समासः

सामान्यतः समासे पूर्वपदस्य विभक्तिर्लुप्यते। समस्तपदे यदि पूर्वपदस्य विभक्तिर्न लुप्यते तदालुक्समासो भवति। अलुक्समासस्तत्पुरुषसमासस्य भेदः।

युधि स्थिरः → युधिष्ठिरः
परस्मै पदम् → परस्मैपदम्
जनुषा अन्धः → जनुषान्धः (जन्मान्धः)
दूरात् आगतः → दूरादागतः

इदमवधेयम् - एतत्समासस्य प्रयोगश्चिकीर्षसि चेत् साहित्ये पूर्वं दृष्टं समस्तपदान्येव प्रयोक्तव्यानि। नूतनसमस्तपदानि न सृष्टव्यानि।

उपपदसमासः

समस्तपदे यद्युपपदं (पूर्वपदम्) उत्तरपदं कृदन्तरूपे विकारयति तदोपपदसमासो भवति। उपपदसमासस्तत्पुरुषसमासस्य भेदः। अस्य समासस्य विग्रहवाक्यमस्वपदविग्रहयुक्तोऽस्त्यत उत्तरपदं विग्रहवाक्ये न दृश्यते।

कुम्भं कारयति → कुम्भकारः (अत्र कारः इति कृदन्तरूपमपि च विग्रहवाक्ये न दृश्यते।)
धनं ददाति → धनदः
साम गायति → सामगः
भयं करोति → भयङ्करः
प्रियं वदति → प्रियंवदः

इदमवधेयम् - विग्रहवाक्ये तिङ्न्तं दृश्यते परन्त्वेष स्वपदविग्रहः। अतोऽस्मिन् समासे सुबन्तं तिङ्न्तेन सह समस्यतयिति न मन्तव्यम्। समासे सुबन्तं तिङ्न्तेन सह कदापि न योक्तव्यम्।

प्रादिसमासः

प्रादिसमासस्तत्पुरुषसमासस्य भेदः। प्र, परा, अप, सम इत्यादयो द्वाविंशतिः प्रादयः शब्दाः। ते परेण शब्देन समस्यन्ते। समासे यदि पूर्वपदं प्रादिरस्ति तदा प्रादिसमासो भवति।

प्रति गतः अक्षम् → प्रत्यक्षम्
परगतः आचार्यः → प्राचार्यः
अभिगतः मुखम् → अभिमुखम्
दुराचारः पुरुषः → दुष्पुरुषः
उत्क्रान्तः कुलात् → उत्कुलः

गतिसमासः

गतिसमासस्तत्पुरुषसमासस्य भेदः। ‘गति’ काचनाष्टाध्याय्यां विहिता संज्ञा। 'च्वि' 'डाच्' प्रत्ययान्तशब्दा ऊर्यादयः शब्दाश्च गतिसंज्ञकाः (अन्ये शब्दा अपि सन्ति, सर्वे नात्र लिखिताः)। गतिसंज्ञाशब्दः परेण शब्देन समस्यते।

अङ्गीकारं कृत्वा → ऊरीकृत्य
अशुक्लं शुक्लं कृत्वा → शुक्लीकृत्य
पटपटा इति शब्दं कृत्वा → पटपटाकृत्य
पुरस्कारं कृत्वा → पुरस्कृत्य
मनसि कृत्वा → मनसिकृत्य
अशुक्लं शुकलं भूत्वा → शुक्लीभूय

गुरुवार, 23 नवंबर 2017

कुसमासः

कुसमासस्तत्पुरुषसमासस्य भेदः। कुशब्दः सुबन्तेन समस्यते।

कुत्सितः पुरुषः → कुपुरुषः / कापुरुषः (गर्हितः पुरुषः, दुष्टः पुरुषः)
कुत्सितम् अन्नम् → कदन्नम्
कुत्सितः अश्वः → कदश्वः

इदमवधेयम्
पुरुषशब्दस्य परे कुशब्दः काशब्दे विकल्पेन परिवर्तते।
स्वराणां परे कुशब्दः ‘कद्’ शब्दे नित्यं परिवर्तते।

नञ्समासः

नञ्समासस्तत्पुरुषसमासस्य भेदः। नञ् (न) सुबन्तेन समस्यते।

न अश्वः → अनश्वः (यः न अश्वः सः)
न ब्राह्मणः → अब्राह्मणः (यः न ब्राह्मणः सः)
न उपलब्धिः → अनुपलब्धिः (उपल्बधेरभावः)
न विवादः → अविवादः (विवादस्याभावः)

इदमवधेयम्
नञ् + स्वरः → अन + स्वरः (न अश्वः → अनश्वः)
नञ् + व्यञ्जनः → अ + व्यञ्जनः (न विवादः → अविवादः)

सोमवार, 20 नवंबर 2017

अव्ययीभावसमासः

यदा प्रायः पूर्वपदमव्ययं प्रधानञ्चास्ति तदाव्ययीभावसमासो भवति। समस्तपदमप्यव्ययमस्ति। समस्तपदं नपुंसकलिङ्गेकवचनं भवति। अव्ययीभावसमासस्य भेदा बहवः। केचनैवात्र दीयन्ते।

अव्ययपूर्वपदम्
१. सप्तमीविभक्त्यर्थे - हरौ इति → अधिहरि
२. सामीप्यार्थे - कृष्णस्य समीपम् → उपकृष्णम्
३. समृद्ध्यार्थे - मद्राणां समृद्धिः → सुमद्रम्
४. व्यृद्ध्यार्थे (विगता वृद्धिः, नाशः, दरिद्रता) - यवनानां व्यृद्धिः → दुर्यवनम्
५. अभावार्थे - मक्षिकाणाम् अभावः → निर्मक्षिकम् (मक्षिकेभ्यो विमुक्तिः)
६. अत्ययार्थे (नाशः, समाप्तिः) - हिमस्य अत्ययः → अतिहिमम् (हिमस्य समाप्तिः)
७. असम्प्रत्यार्थे (अनुचिततार्थे) - निद्रा सम्प्रति न युज्यते → अतिनिद्रम्
८. पश्चादार्थे - विष्णोः पश्चात् → अनुविष्णु
९. शब्दप्रादुर्वभावे (शब्दस्य प्रकाशः) - हरिशब्दस्य प्रकाशः (उच्चारणः) → इतिहरि
१०. योग्यतार्थे - रूपस्य योग्यता → अनुरूपं (उचितम्)
११. वीप्सार्थे - ग्रामं ग्रामं प्रति → प्रतिग्रामं (प्रत्येके ग्रामे)
१२. अनतिक्रम्यार्थे - शक्तिमनतिक्रम्य → यथाशक्ति
१३. यौगपद्यार्थे (साकमार्थे) - चक्रेण युगपत् → सचक्रम् (चक्रेण सहैव)
१४. सादृश्यार्थे - हरेः सादृश्यम् → सहरि
१५. बहिरार्थे - वनात् बहिः → बहिर्वनम्
१६. मर्यादार्थे (मर्यादया विना) - आ हिमालयात् → आहिमालयम् (हिमालयोऽसमाविष्टः)
१७. अभिविध्यार्थे (मर्यादया सह) - आ हिमालयात् → आहिमालयम् (हिमालयः समाविष्टः)
१८. अभिमुख्यार्थे - अग्निं प्रति → प्रत्याग्नि
१९. आनुपूर्व्यार्थे (क्रमार्थे) - ज्येष्ठताया क्रमेण → अनुज्येष्ठम्
२०. सम्पत्त्यार्थे - क्षत्राणां सम्पत्तिः → सक्षत्रम्
२१. साकल्यार्थे (सहितार्थे) - तृणमापि अपरित्यज्य → सतृणम्
२२. अन्तार्थे (अन्तः पर्यन्तम्) - अग्निकाण्डं पर्यन्तम् → साग्नि
२३. अवधारणार्थे - यावन्ति नामानि → यावन्नामम्

अव्ययोत्तरपदम्
मात्रार्थे - शाकस्य लेशः (अल्पमात्रा) → शाकप्रति (अल्पमात्रायां शाकम्)

अव्ययपदरहितम्
१. पारेशब्दयुक्तः - गङ्गायाः पारे → पारेगङ्गम्
२. मध्येशब्दयुक्तः - गङ्गाया मध्ये → मध्येगङ्गम्
(टीका - यदि गङ्गापारे / गङ्गामध्ये लिख्येते तर्हि षष्ठीतत्पुरुषसमासो भविष्यति।)

द्वन्द्वसमासः

यदा सर्वाणि पदानि प्रधानानि तदा द्वन्द्वसमासो भवति। द्वन्द्वसमासः प्रमुखतस्त्रिविधा -

इतरेतरद्वन्द्वसमासः
यदा द्वौ द्वाधिका वा पदानामेकया क्रियया सहान्वयोऽस्ति।
माता च पिता च → मातापितरौ (उपयोगोदारहणम् - मातापितरौ पुत्रँल्लाडयतः।)
रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च → रामलक्ष्मणभरतशत्रुघ्नाः (उपयोगोदारहणम् - रामलक्ष्मणभरतशत्रुघ्ना मातृभ्यः प्रणमन्ते।)

समाहारद्वन्द्वसमासः
यदा सर्वाणि पदानि कश्चन समाहारा रचयन्ति (समस्तपदं सदैव नपुँसकलिङ्गेकवचनं भवति)।
संज्ञाश्च परिभाषाश्च एतासां समाहारः → संज्ञापरिभाषम्
(टीका - संज्ञाश्च परिभाषाश्च एतासां समाहारः (इतरेतरापि रचयितुं शक्यम्) → संज्ञापरिभाषाः)

कासुचित् स्थितिषु समाहारद्वन्द्वसमासो नित्यं भवति।
शरीरस्याङ्गानां विषये - पाणी च पादौ च एतेषां समाहारः → पाणिपादम्
जन्मजातशत्रुताविषये - अहि च नकुलं च अनयोः समाहारः → अहिनकुलम्
सङ्गीतस्यावयवा विषये - मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारः → मार्दङ्गिकपाणविकम् (ये जना मृदङ्गं पणवञ्च वादयन्ति तेषां समाहारः)
सेनयाया अवयवा विषये - रथिकाश्च अश्वारोहाश्च एतेषां समाहारः → रथिकाश्वारोहम्

एकशेषद्वन्द्वसमासः
यदैकपदमेव शिष्यते।
माता च पिता च → पितरौ
अजश्च अजा च → अजौ

द्विगुसमासः

द्विगुसमासस्तत्पुरुषसमासस्य कश्चन भेदः। यदा पूर्वपदं सङ्ख्यावाच्यस्ति तदा द्विगुसमासो भवति। अवधेयम् - येषु समस्तपदेषु पूर्वपदं सङ्ख्यावाच्यस्ति ते सर्वे न द्विगवः। यदि समस्तपदमुत्तरपदञ्चोभावेकां संज्ञामुल्लेखयतस्तर्हि तादृशः समासो द्विगुर्न प्रत्युत विशेषणपूर्वपदकर्मधारयसमासः।
सप्त ऋषयः → सप्तर्षयः
सप्तर्षयः (समस्तपदम्) संज्ञा, ऋषयः (उत्तरपदम्) संज्ञा चोभे अप्यृषीणामेकमेव समूहमुल्लेखयतः। अतोऽयं विशेषणपूर्वपदकर्मधारयसमासो न द्विगुसमासः।

द्विगुसमासस्य प्रमुखभेदास्त्रयः।

तद्धितार्थद्विगुः
यदा तद्धितप्रत्ययमुपयुज्य समस्तपदं साध्यते।
षण्णां मातॄणाम् अपत्यम् → षाण्मातुरः
द्वयोः मात्रोः अपत्यम् → द्वैमातुरः

उत्तरपदद्विगुः
यदा पूर्वपदं सङ्ख्यावाच्यस्ति समस्तपदञ्च कश्चनान्यां संज्ञामुल्लेखयति।
पञ्च गावः धनं यस्य सः → पञ्चगवधनः
अत्र द्वौ समासौ स्तः। पञ्चगवधन इति बहुव्रीहिसमासः। अस्मिन् बहुव्रीहिसमासे ‘पञ्गव’ इतयुत्तरपदद्विगुसमासः। यद्यस्मिन् समासे ‘धन’ पदं न अभविष्यत्तर्हि ‘पञ्चगव’ द्विगुर्नाभविष्यत् प्रत्युत ‘पञ्चगावः’ इति विशेषणपूर्वपदकर्मधारयसमासोऽभविष्यत्। किमर्थम्? यतः ‘पञ्चगावः’ (समस्तपदम्) संज्ञा ‘गावः’ (उत्तरपदम्) संज्ञामेवोल्लेखयति (अस्य लेखस्यादौ ‘अवधेयम्’ भागो दृश्यताम्)। यदि ‘पञ्चगावः’ स्थाने ‘पञ्चगवम्’ इति समस्तपदमलेखिष्यते तर्हि ‘पञ्चगवम्’ समाहारद्विगुसमासोऽभविष्यत्।

समाहारद्विगुः
यदा पूर्वपदं सङ्ख्यावाच्यस्ति समस्तपदञ्च कश्चन समाहार उल्लेखयति।
पञ्चनां गवां समाहारः → पञ्चगवम्
त्रयाणां भुवानां समाहारः → त्रिभुवनम्
अवधेयम् - समाहारद्विगुः समाहारद्वन्द्वस्यापेक्षया भिन्नः। समाहारद्वन्द्वे पूर्वपदं सङ्ख्यावाचि नास्ति।

रविवार, 19 नवंबर 2017

उन्नयनी

ह्यः कस्याञ्चित् पठ्यमानायाङ्कथायां ‘उन्नयनी’ शब्दो मया पठितम्। तस्यार्थो मया न ज्ञातः। शब्दकोशेऽपि लब्धुमसमर्थोऽहम्। तदानीं संस्कृतव्याकरणे सहायतया स्वयमेवास्य शब्दस्यार्थोऽवगन्तुमशक्नवमहम्। अस्मिञ्छब्दे ‘उद्‘ उपसर्गः ‘नी’ धातुश्च प्रयुज्येतयिति मयोहितम्।

उद् + नयनी → उन्नयनी (अनुनासिकसन्धिः)

किञ्चिद्वस्तूर्ध्वं नयतीति सन्दर्भो मयोहितम्। अनन्तरङ्कथायां सन्दर्भं दृष्ट्वा मयोहितँय्यत् ‘उन्नयनी’ शब्दस्यार्थः ‘एलिवेटर’ अस्ति।

उन्नयनी - योर्ध्वं नयति सा (समानाधिकरणबहुव्रीहिसमासः)

व्याकरणज्ञानेन स्वयमेव नूतनशब्दस्यार्थो मयोहितमिति ज्ञात्वा मन्मनसि महान् सन्तोष उदभवत्।

अङ्गं गलितं, पलितं मुण्डं

अद्य वयमादिशङ्कराचार्यलिखितं सुभाषितं पठिष्यामः। एतत् सुभाषितं तेन लिखितञ्चर्पटमञ्जर्यां दृश्यते। सुभाषितं इति -

अङ्गं गलितं, पलितं मुण्डं, दशनविहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चति आशा पिण्डम्॥

एतत्सुभाषितं मनुष्यस्यानन्तेच्छा विषयेऽस्ति।

अङ्गं गलितं - शरीरस्याङ्गानि ग्लायन्ति शक्तिक्षीणानि जातानि।
पलितं मुण्डं - मुण्डमित्युक्ते शिरः, पलितं मुण्डमर्थः - दीर्घायुवशात् तस्य शिरसि केशाः पलिता अथवा धूसरवर्णा भवन्ति।
दशनविहीनं जातं तुण्डम् - मुखस्य यस्मिन् भागे दन्ता वर्तन्ते तं तुण्डमुच्यते। दीर्घायुः कारणाद्मुखे दन्ता न सन्ति।

वृद्धो याति गृहीत्वा दण्डं - याति अर्थश्चलति - यतः स वृद्धोऽतः स दण्डङ्गृहीत्वा चलति।
तदपि न मुञ्चति आशा पिण्डम् - मुञ्चति ‘मुच्’ धातोः रूपम्। स वृद्धः, आशा, इच्छा, लिप्सा न मोचयति, यद्यपि स वृद्धस्तथापि तस्य बहव इच्छाः सन्ति - इत्यर्थः।

सुभाषितस्य सम्पूर्णार्थ इति - यद्यपि वृद्धावस्थायाः कारणात् कश्चचन मनुष्यस्याङ्गानि क्षीणानि जातानि, तस्य केशाः श्वेतवर्णा भवन्ति, तस्य मुखं दन्तहीनञ्जातं, स दण्डस्य सहायतया चलति तथापि स तस्य बहव इच्छा न मोचयति। तथापि स बहूनि वस्तूनि प्राप्तुमिच्छति। मनुष्यस्येच्छा अनन्ता इत्येतत् सुभाषितं सूचयति।

मंगलवार, 14 नवंबर 2017

वसुधैव कुटुम्बकम्

अद्य वयं हितोपदेशे दृष्टङ्कञ्चन श्लोकं पठिष्यामः। श्लोक इति -

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

सन्धिविच्छेदितरूपम् -
अयं निजः परः वा इति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधा एव कुटुम्बकम्॥

प्रथमवाक्यस्य सन्धिविच्छेदङ्कृत्वैतद्वाक्यँल्लभ्यते - अयं निजः परः वा इति गणना लघुचेतसाम् - प्रथमतः ‘लघुचेतसां’ इति शब्दस्य विश्लेषणङ्कुर्मः। ‘लघुचेतसां’ एष ‘लघुचेतस्’ पदस्य षष्ठीविभक्तेर्बहुवचनमस्ति। ‘चेतस्’ किं? ‘चेतस्’ इत्युक्ते मनोऽथवा बुद्धिः। ‘लघुचेतस्’ किम्? अल्पबुद्धिरथवा क्षीणबुद्धिः। ‘निजः’ अर्थः स्वस्य। ‘परः’ अर्थोऽन्यस्य। अतः प्रथमवाक्यस्यार्थ इति - एतद्वस्तु मम, तद्वस्त्वन्यस्येत्यल्पबुद्धियुक्ता जना गणयन्ति।

द्वितीयवाक्यं पठामः।
उदारचरितानां तु वसुधैव कुटुम्बकम् - सन्धिविच्छेदितरूपमिति - उदारचरितानां तु वसुधा एव कुटुम्बकम। ‘उदारचरितानां’ - पुनष्षष्ठीविभक्तिबहुवचनमस्त्यत्र। उदारचरिताः के? येषाञ्जनानाञ्चरित्रमुदारं ते उदारचरिताः। वसुधा का? पृथ्वी, जगत्, संसारः। कुटुम्बकङ्किम्? कुलमथवा वंशः। उदारजनास्समस्तजगत्तेषाङ्कुलमिव चिन्तयन्तीति द्वितीयवाक्यस्यार्थः।

इदानीँव्वयं सङ्क्षिप्तरूपेणास्य श्लोकस्यार्थो वक्तुं शक्नुमः। एतद्वस्तु मम तद्वस्त्वन्यस्य - इत्यल्पबुद्धिजनाश्चिन्तयन्ति। उदारजनास्तु समस्तजगत्तेषाङ्कुलमिव भावयन्ति।

रविवार, 12 नवंबर 2017

'कार्पोरेट' चलचित्रम्

‘कार्पोरेट’ इति हिन्दीचलचित्रमपश्यम्। किङ्कथेयम्? उत्तमञ्चलचित्रम्। किमर्थं भारतयेतादृशानि चलचित्राण्याधिक्येन न निर्मीयन्ते? सार्धद्वौघण्टा यावच्चलदेतच्चलचित्रङ्कदापि नीरसन्न कारयति। द्वे वाणिजसंस्थे साफल्यं साधयितुं सर्वाश्शालीनता नैतिकता अतिक्रम्य किङ्किङ्कर्तुं शक्नुत इति दर्शितमस्मिँश्चलचित्रे। सम्पूर्णचलचित्रं मयारुच्यत परन्तु मन्मतावेकस्मिन् भागे परिवर्तनँय्यदि क्रियेत चलचित्रमितोऽपि श्रेष्ठतरं भवेत्। यद्यपि तया किमपि दुष्कर्म न कृतं तथापि चलचित्रस्य मुख्यनायिका निशिस्संस्थाया अनैतिकताया सर्वे दोषास्स्वेच्छया स्वीकरोति। एतत्तु विलक्षणँव्विचित्रञ्च। चलचित्रे सातिबुद्धिमती दर्शिता। यानि दुष्कर्माणि तया न कृतान्येतादृशी बुद्धिमती सा युवती वस्तुतस्स्वस्या दोषाः कदापि न स्वीकुर्यात्। यद्यपि सा स्वेच्छया दोषा न स्वीकरोति तथापि तस्यास्संस्था कथमपि तस्यामुपरि सर्वे दोषाः पातयतीति दर्श्यम्। यदीत्यदर्शयिष्यत् तर्हि चलचित्रं श्रेष्ठतममभविष्यत्। तथाप्युत्तमञ्चलचित्रमिदम्। दृष्ट्वा महान् सन्तोषः प्राप्तः।

छात्रा मद्विचारा दृढीकरोति

कतिपयदिनानि पूर्वं मया प्रतिपादितँय्यच्छात्रास्संस्कृतवर्गे महत्कष्टान्यनुभवन्ति। असौ मत्सिद्धान्तः। ह्यर्यदभवत्तदमुं सिद्धान्तं दृढीकरोति। वर्गस्था काचन छात्रा मां दूरवाण्या सम्पर्कोऽकरोत्। सावदद्यद्वर्गे पाठवगमने सा बहूनि कष्टान्यनुभवति। कस्मात् कारणान्मया पृष्टम्। यतः पाठास्सदैव संस्कृतमाध्यमेन पाठय्यन्तेऽतः सा बहवो विषयावगन्तुन्न शक्नोति। यतः प्रश्ना अपि संस्कृतैव पृष्टव्या अतः सा प्रश्ना न पृच्छति। अपिच तस्या न्यूनवगमनभयात् सा वर्गन्नावरुरुत्सति तस्मात् सा प्रश्ना न पृच्छति। कृपया मामाङ्ग्लहिन्दीभाषयोर्वर्णयेति सा मामप्रार्थयत्। अन्यथा प्रायेण तस्या रुचिर्क्षीणा भवेदिति साब्रवीत्। किं मया नोक्तं पूर्वम्? संस्कृतमाध्यमेन पाठनं नोचितविचारः - कृतञ्चेच्छात्राणां रुचिरक्षीणा भवेत्? एष वृत्तान्तोऽस्य प्रमाणः। अहं तामवश्यमाङ्ग्लहिन्दीभाषयोः पाठयिष्यामि - वर्गे नापितु पार्थक्येन।

शुक्रवार, 10 नवंबर 2017

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥

सन्धिविच्छेदितरूपम् -
यदि वाचं प्रदास्यामि द्विजातिः इव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥

उपरितनश्श्लोका रामायणे दृश्यते। एते हनुमच्छब्दाः। यदा स सीतामुपगमनार्थं सन्नद्धमान आसीत् तदा स एतच्चिन्तयाञ्चक्रे। अस्मिञ्छ्लोके केवलमेकः कठिनशब्दः - द्विजातिः। द्विजातिरर्थो ब्राह्मन्।
अस्य श्लोकस्यार्थ इति - यदि स (हनुमान्) कश्चन ब्राह्मन्निव संस्कृतेन भाषिष्यते तर्हि सीता रावणः कश्चन ब्राह्मनरूपं धृत्वागच्छतीति मत्वा तस्माद्भेष्यति ।

गुरुवार, 9 नवंबर 2017

नाहं जानामि केयूरे

अद्य वयं रामायणे दृष्टङ्कञ्चन श्लोकं पठामः।

स्थितिरियम्। रावणः सीतामपाहरत्। यदा स सीतां पुष्पकविमानेन लङ्कान्नयमान आसीत्तदा सीता तस्या आभूषणान्याकाशाद्विमानादपातयत्। भूतले रामलक्षम्णौ वानराश्च तस्या अन्वेषणङ्कर्तुं प्रयतमाना आसन्। तान्याभूषणानि वानरैरलभ्यन्त। ते राममुपागच्छँस्तमाभूषणान्यदर्शयँश्च। परन्तु स सीताया वियोगकारणादतीवशोकग्रस्त आसीत्। स कोऽपि सम्भाषणङ्कर्तुन्नाशक्नोत्। तदानीं वानरा लक्ष्मणमाभूषणान्यदर्शयन्। आभूषणानि दृष्ट्वा लक्ष्मण इत्यवदत् -

नाहं जानामि केयूरे, नाहं जानामि कुण्डले।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दात्॥

न अहं जानामि केयूरे - केयूरमर्थो वलयं, केयूरं वलयमित्यादीनि कानिचन भुजाभूषणानि सन्ति। केयूरे - इति तु ‘केयूर’ प्रतिपादिकस्य प्रथमाविभक्तेर्द्विवनचनमस्ति - केयूरं केयूरे केयूरानि। यतो द्वे भुजे स्तोऽतो द्वे केयूरे स्तः।

कुण्डलं तु वयञ्जानीमः - कर्णाभूषणानि। कुण्डले अपि द्विवचने। नूपुरं तु पादाभूषणम् - नूपुरे अपि द्विवचने। नाहं जानामि केयूरे, नाहं जानामि कुण्डले। लक्ष्मणोऽवदत् - अहन्न जानामि एतान्याभषूणानि। कान्याभूषणानि? केयूरे कुण्डले च।

नूपुरे तु अभिजानामि - तदानीं सोऽवदत् - परन्त्वहमेते नूपुरे तु जानामि। कथं स नूपुरे अजानीत्। नित्यं पादाभिवन्दात्। नित्यं पादाभिवन्दादित्युक्ते - यतो लक्ष्मणः सीतायाः पादौ प्रतिदिनं वन्दते स्मातः स तस्याः पादौ प्रतिदिनं पश्यति स्म। तस्मात् कारणात् स तस्याः पादाभूषणानि जानाति स्म।

सङ्क्षिप्तरूपेऽस्मिञ्छलोके लक्ष्मणः कथयति स सीतायाः कर्णभुजाभूषणानि नाभिजानाति परन्तु स तस्याः पादाभूषणान्यभिजानाति।

सोमवार, 6 नवंबर 2017

संस्कृतसम्भाषणे प्रवाहः

गतदिने व्हाट्सैपसमूहे कश्चन जनः कस्यचन पण्डितस्य साक्षात्कारं प्रेषितवान्। तस्य साक्षात्कारं श्रुत्वा स संस्कृतस्य महापण्डित इति तु स्पष्टम्। परन्तु स सम्पूर्णसाक्षात्कारो हिन्दिभाषायामददन्न संस्कृतभाषायाम्? किमर्थम्? साक्षात्कारस्यादावेव स महाभाग उक्तवान् यदभ्यासाभावात् स संस्कृते सम्भाषणङ्कर्तुन्न शक्नोति। एतच्छ्रुत्वा किमाश्चर्यचकितोऽसि? अहन्न। अहञ्जाने सम्भाषणे प्रवाहं साधयितुं मार्ग एक एव। सम्भाषणं सम्भाषणं सम्भाषणम्। कोऽप्यन्यो मार्गो नास्ति। सम्पूर्णाष्टाध्याय्या अध्ययनङ्कृत्वावगत्वा चापि सम्भाषणे प्रवाहो न भवेत्। यदि संस्कृतसम्भाषणे प्रवाहः सिसात्ससि संस्कृतैव सम्भाषणङ्कर्तव्यम्।

वर्गस्य दशा

अहङ्कस्मिँश्चित् संस्कृतवर्गे वर्ते। वर्ग एकघण्टां यावत् प्रचलति। मम पात्रं तूपशिक्षकस्यैव। प्रायः सम्पूर्णवर्गे नीरवं तिष्ठामि केवलमन्ते द्वौ निमेषाभ्यामेव किञ्चित् सुभाषितं पाठयामि (तानि सुभाषितान्येवास्य जालस्थाने लिखामि)। प्रतिसप्ताहं छात्रसङ्ख्या न्यूना भवति। गतवर्गे केवलं द्वौ छात्रावास्ताम्। एतद्दृष्टवा मनश्चेखिद्यते। किमर्थं छात्रसङ्ख्या न्यूना जाता? वर्गे पाठं संस्कृतभाषयैव पाठ्यते। अन्यभाषाया वदनन्निषिद्धम्। छात्राः पाठस्यावगमने महत्कष्टमनुभवन्ति। तस्मात्तेषामरुचिः क्षीयते। अयं मत्सिद्धान्तः। यदि यथेच्छाहं पाठयितुं शक्नुयां तर्ह्यमादावाङ्ग्लभाषया माध्यमेन पाठयेयम्। कनिष्ठपक्षं छात्राणां रुचिरनुवर्तेत। यदा छात्राः संस्कृतव्याकरणस्य मूलसूत्राणि ज्ञास्यन्ति तदैव संस्कृतमाध्यमेन पाठयिष्यामि। अहमपि संस्कृतभाषया पिपाठयिषामि परन्तु वर्गे छात्रा न सन्ति चेत्कान् पाठयिष्यामि - तदानीं संस्कृतयुताङ्ग्लभाषायां प्रश्नस्य महत्वं तु शून्यम्भविता? वर्गे छात्रा रुच्या सहभागः कुर्युरिति प्रथमलक्ष्यम्भवतु। तदनन्तरमेवान्यानि लक्ष्यानि साधयितुञ्चेष्टा करणीया।

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति

इदानीङ्किञ्चित् सुभाषितं पठिष्यामः।

सुभाषितमिति -

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः॥

प्रथमवाक्येऽन्तिमशब्दो वर्जयित्वा सर्वे शब्दाः सुलभा एव। अतः प्रथमतः प्रथमवाक्यस्यान्तिमशब्दः पठामः।
पण्डितानुपाश्रयति - अत्र सन्धिविच्छेदः कृत्वा 'पण्डितान् उपाश्रयति' लभ्यते। पण्डितान् - अस्मिञ्छब्दे पण्डितशब्दस्य द्वितीयाविभक्तेर्बहुवचनमस्ति। उपाश्रयति - इत्युक्ते समीपे तिष्ठति। अतः पण्डितानुपाश्रयत्यर्थः पण्डितानथवा ज्ञानिनः समीपे तिष्ठति। प्रथमवाक्यस्यार्थः कः? यो मनुष्यः पण्डितान् समीपे पठति लिखति पश्यति प्रश्नाः पृच्छति।

द्वितीयवाक्यं पठामः।
तस्य दिवाकरकिरणैः नलिनीदलमिव विकास्यते बुद्धिः॥

दिवाकरकिरणैः - अस्मिञ्छब्दे द्वे पदे स्तः। एष षष्ठीतत्पुरुषसमासः। अत्र समासविग्रहङ्कृत्वा 'दिवाकरस्य' 'किरणैः' एते द्वे पदे लभ्येते। दिवाकरः कः? यो दिवसः कारयति स दिवाकरः। को दिवसः कारयति? सूर्यः खलु! अतो दिवाकरोऽर्थः सूर्यः।

नलिनीदलमिव - अत्रापि षष्ठीतत्पुरुषसमासोऽस्ति। त्रयः शब्दाः सन्ति। नलिनी दलम् इव। नलिनी किमस्ति? नलिनी इत्युक्ते कमलपुष्पम्। दलङ्किम्? कमलपुष्पस्य पर्णानि। अतो यथा कमलपुष्पस्य पर्णानि सूर्यस्य किरणैर्द्वारा विकसिता भवन्ति तथैव तस्य मुष्यस्य बुद्धिरपि विकसिता भवति - इति द्वितीयवाक्यस्यार्थः। कस्य मनुष्यस्य बुद्धिः? यः पण्डितान् समीपे तिष्ठति पठति लिखति च।

इदानीं सुभाषितस्य सम्पूर्णार्थो वक्तुं शक्नुमः। यो मनुष्यः पण्डितान् समीपे तिष्ठति पठति लिखति प्रश्नाः पृच्छति। येन प्रकारेण सूर्यस्य किरणैर्द्वारा कमलपुष्पँव्विकसितं भवति तथैव तस्य मनुष्स्य बुद्धिर्विकसिता भवति। अतः - सदैव बुद्धिमतः समीपे तिष्ठतु। सुसङ्गतिः प्राप्नोतु - इत्यस्य सुभाषितस्य सन्देशः।