शनिवार, 30 दिसंबर 2017

रेलगन्तारौ

ह्यः सपुत्रा रेलयानेऽगच्छम्। रेलयानं प्रति मत्पुत्रस्य महत्यास्क्तिः। 'मां रेलयाने गमय' इति स बहुवारं पूर्वं मान्न्यवेदयत्। अस्मिन्नगरे सामान्यता रेलयानमवकाशदिनेषु न चलति। अतो यदा यदावयोः (मम मत्पुत्रस्य च) पर्वकारणेनावकाशो भवति तदा सर्वदा रेलयानस्यावकाशोऽप्यस्ति। अतस्तं रेलयाने गमयितुमवसरो न प्राप्नुवम्। अस्मिन् सप्ताहे कार्यालये बहवो जना अवकाशः प्राप्य कार्यालयादविद्यमानाः। तस्मात् कार्यालये बहुकार्यन्नास्ति। अस्यावसरस्योपयोगङ्करणीय इति मया चिन्तितम्। अतो ह्यः प्रातःकालयावां रेलयानेन नगरकेन्द्रमगच्छाव। तत्राल्पहारः कृत्वा पुना रेलयानेन गृहमाच्छाव। तस्मात् मत्पुत्रे महान् सन्तोषो जातः। तस्य मुखम दृष्ट्वैवेति लक्षितम्। मत्पुत्रस्य कृते काचिल्लघुक्रिया कृत्वैव पुत्रस्य मनो मोदयितुमशक्नवमिति विचिन्त्य महान् सन्तोषोऽन्वभवमहमपि।

बुधवार, 20 दिसंबर 2017

व्याकरणे सन्धेर्वैलक्षण्यम्

संस्कृतव्याकरणे सन्धिविषयो विलक्षणः। प्रायः सर्वे जना विषयोऽयं द्विषते। सन्धिनियमा बहवः। ते जटिलाश्च। विसन्धिना लिखिता लेखा न केवलमनायासेनावगन्तुं शक्यन्तेऽपितु सन्धिर्वर्तते चेत्पठनवेगोऽवरुध्यते। सन्धिः सर्वासु भाषासु भिन्नमात्रायां दृश्यते परन्तु तासु भाषासु सन्धिः केवलमनौपचारिकरूपेण वर्तते। स व्याकरणनियमेषु न समाविष्टः। संस्कृते सन्धिर्व्याकरणनियमेषु समाविष्टः। अतः स औपचारिकरुपेण पाठ्यते। यतः सन्धिरष्टाध्याय्याँल्लिखितोऽतः स त्यक्तुन्न शक्यते। संस्कृतमाधुनिककाले लौकिकभाषा नास्ति तस्मादेव सन्धिरद्य जीवति। यदि संस्कृतं पुनरलौकिकभाषा भवेत्तर्हि निश्चयेन कोऽपि सन्धिर्न प्रयुजयेत। तर्हि मया स किमरथं प्रयुज्येत? स मह्यं रोचते। स सुन्दरो मनोहरश्च। बहुषु नियमेषु के नियमाः प्रयोक्तव्या इति निर्णयकरणे सन्तोषमनुभवामि। मयि सन्धियुक्तशब्दाँल्लिखत्सु मन्मनो मोमुद्यते। सन्धेरभ्यासोऽपि प्राप्नोमि। अभ्यासेन सन्धिनियमा न विस्मरामि। इमे लेखा मदभ्यासस्य कृतयेव न त्वन्येषां पठनाय।

मंगलवार, 19 दिसंबर 2017

पदोन्नतिः

अद्य प्रातःकाले कार्यालयेऽहं मत्पर्यवेक्षकश्चामेलिष्व। मत्पर्यवेक्षको मामसूचयद्यद्यदि मह्यं पदोन्नतिं रोचते तर्हि मयाधिकङ्कार्यङ्कर्तव्यम्। अहं तमसूचयँय्यदहं पदोन्नतिन्नेच्छामि। केन कारणेन सोऽप्राक्षीत्। पदोन्नतिँल्लिप्सन्तो जना अहं प्रतिदिनं पश्यामि। पदोन्नतेः कृते कियत् कार्यङ्कुर्वते तदपीक्षेऽहम्। पदोन्नतेः कृते त्रिचतुरेभ्यो वर्षेभ्यो महत्कार्यङ्करणीयमिति संस्थाया अपेक्षा। एतत्तु मह्यन्न रोचते। अहं सर्वः समयः कार्यालयकार्ये मग्नो भवितुन्नेच्छामि। ममाभिरुचेः कुटुम्बस्य च कृतेऽपि समय इच्छामीत्यहं तमवोचम्। पदोन्नतेरपेक्षया त्वं प्रसन्नता सन्तुष्टिश्च महत्वं ददासीति मन्येऽहमिति सोऽवोचत्। तेन सत्यमेवोक्तम्। अयन्निर्णयः साध्वसाधु वेति काल एव कथयिष्यति।

अद्यतनजीवनं पुरातनजीवनम्

जीवने बहवः समस्या अस्मान् बाधन्ते। अमूः समस्या अधिकृत्य वयं बहुशः क्रन्दामः। कदा कार्यालये प्रोन्नतिं न प्राप्नुमः, कदा विद्युच्छक्तेर्मूलस्य वर्धनमस्मास्वसन्तोषो जनयति, कदा ज्वरग्रस्ता वयमित्यादयः। इयं सूची त्वनन्ता। यदा कदास्मान् काचन समस्या पीडयति पुरातनकाले जनानाञ्जीवनङ्कीदृशं बभूवेति चिन्तनीयम्। पुरातनकाले विद्युच्छक्तिर्न बभूवातो जनास्तमसि जिजीवुः। तयुष्णं निवारणाय व्यजनं न चालयाञ्चक्रिरे, शीतं निवारणायोष्णनिर्माणयन्त्रञ्चालयितुं न शेकुः। तेषां समस्यानामपेक्षयास्माकं समस्या त्वल्पा एव । यदि ज्वरपीडिता वयं, चिकित्सकेन दत्तमौषधं सेवित्वा पुनरारोग्यं प्राप्तुं शक्नुमः। प्राचीनकाले वैद्यशास्त्रमपि न बहूत्तमं। चिकित्सका औषधं ददुः परन्तु ते शस्त्रचिकित्सा न चक्रुः। धनिकराजानोऽपि रोगानधिकृत्य किमपि कर्तुं न शेकुः। यद्यप्याधुनिकजीवने समस्या वर्तन्ते तथाप्यास्माकञ्जीवनानि प्राचीनजीवनानामपेक्षया समीचीनतराणि। प्राचीनकाले सामान्यप्रजायाः कृते भोजनं सर्वदा विरलम्। अद्यत्वे भोजनस्योतिशयोऽस्ति। दरिद्रा अपि स्थूलगात्रेण पीडिताः। अतो यदा कदापि वयङ्कष्टैः पीड्यामहे तदा प्राचीनकालिकजीवनविषये चिन्तनीयम्। तदेवाधुनिककालिनः सुखसुविधायाः कृते धन्यो भवेम। अस्माकङ्कष्टानि न महन्तीति चिन्तयेम।

शुक्रवार, 15 दिसंबर 2017

उपायनानि

क्रिस्तमसपर्वमागमिष्यमानमस्ति। आपणा जनैः सम्मर्दाः। सामान्यदिनानामपेक्षयापणेष्वधिका जना दृश्यन्ते। सर्वे तेषां बन्धूनाङ्कृतयुपायनानि क्रीणितुमुद्युक्ताः। बन्धुभिः सह पर्वं समाचरन्त्येतत्तु हर्षजनकम्। परन्तु प्रतिवर्षं सहस्रा जना अनावश्यकान्युपायनानि लभन्ते। बहून्युपायनानि जनैर्ग्रहीत्वा कदापि नोपयोगः कुर्वते। तेषाङ्गृहे जीवने च तान्युपायनान्यवकाशः समयश्च समाविशन्ति। एतादृशानामुपायनानाङ्कृते जना व्यर्थतया महद्धनस्य व्ययः कुर्वते। येषाँव्वस्तूनाङ्ग्राहक उपयोगः कर्तुं शक्नोति तान्येव क्रेतव्यानि देयानि च। गृहँव्वस्तूभिर्न सम्मर्दङ्कर्तव्यम्। सम्मर्दगृहं मानसिकदुष्प्रभावञ्जनयति। अस्मिन् क्रिस्तमसपर्वे यानि वस्तून्यावश्यकानि तान्येव देयानि सङ्ग्रहतव्यानि च।

गुरुवार, 14 दिसंबर 2017

इच्छास्ति कर्माणि न सन्ति

बहवो जनाः संस्कृतेन बिभाषिषन्ते। इयमिच्छा ते स्फुटतया प्रदर्शयन्ति। अहमवश्यं पापठ्यिष्ययिति कथयन्ति। उत्साहसङ्कल्पौ स्तस्तथापि तेषां संस्कृतज्ञानं न वर्धते। केन कारणेन? तस्य कृते ते कर्माणि न कुर्वते। समयो नास्ति, संस्कृतभाषा कठिनैतादृशानि मृषावचांसि श्रूयन्ते। नूतनभाषाध्ययनस्य कृते महत्समयो महद्यत्नाश्चापेक्ष्यन्ते। भाषाध्ययनस्य कृते समयो दातव्यः। भाषां प्रधान्यता दातव्या। सा गौणा न भावयितव्या। अभ्यासश्चेक्रीयितव्यः। व्याकरणनियमाः पापठितव्याः। दैनन्दिनजीवने तद्भाषाया उपयोगः करणीयः। पापठितव्या लेलिखितव्या बाभाषितव्या सा। तदानीमेव ज्ञानं वर्धेत। यद्येतादृशं परिश्रमङ्कर्तुं नेष्येते संस्कृतपठने समयो निश्चयेन व्यर्थो भवेत्।

सप्तहोराभ्योऽशयिषि

गतरात्रौ सप्तहोराभ्योऽशयिषि। स्वप्ना माञ्जागरयितवन्त इति स्मरामि परन्तु पुनः स्वपितुमशकमिति भाति। गतरात्रौ किं भिन्नं? केन कारणेन सप्तहोराभ्यः स्वपितुमशकम्? कथं सप्ताष्टभ्यो होराभ्यः शय्येतेति रहस्यस्य परिशोधनार्थङ्कश्चन विधिः प्राप्स्ययित्याशासे परन्तु वस्तुतो गतनिशायाः सुनिद्रायाः कारणं तु साधारणमेव। पूर्वतनयोर्द्वयोर्निशयोः केवलं पञ्चषटहोराभ्योऽशेयि। अतो निद्राहीन आसमहम्। तस्मादेव सप्तहोराभ्यः स्वपितुमशकम्। सप्तहोराभ्योऽशयिषीत्युत्तमं परन्तु येन कारणेन तदभूत्तन्नोत्तमम्।

मंगलवार, 12 दिसंबर 2017

स्वप्ना निद्रां बाबाध्यन्ते

रात्रौ सम्यक्तया मया निद्रां न लभ्यते। प्रतिरात्रं बहवः स्वपना आगच्छन्ति। बहुवारं ते भयङ्कराः। तस्मान्मध्यरात्रञ्जागर्मि। कुस्वप्नैरहञ्जागर्ययिति न विस्मयजनकं परन्तु बहुवारँय्यद्यपि स्वप्ना न भयङ्करास्तथाप्यहञ्जागर्मि। एतत्तु मय्याश्चर्यञ्जनयति। वस्तुतः सर्वे स्वप्ना माञ्जागरयन्ति। किमर्थं मया न ज्ञायते। अपि नाम गाढनिद्राहं न कुर्वे। गतरात्रौ चतुर्वारमजागरिषम्। प्रतिवारं स्वप्नानाङ्कारणेन। स्वप्ना न विशिष्टाः। न हर्षमया न दुःखमयाश्च। ते साधारणा एव। तथापि ते माञ्जागरयितवन्तः। अनुस्यूततयाष्टहोराभ्यो निद्रा न लभ्यतयिति चिन्ता मां बाबाध्यते।

सोमवार, 11 दिसंबर 2017

अन्दिका

यद्गृहेऽहं निवसामि तस्मिन्नेकान्दिकास्ति। यदैतद्गृहमक्रीणां तदेयमन्दिका रिक्तासीत्। अग्निज्वलनस्य कृते तस्याङ्किमप्युपकरणानि नासन्। अन्दिका मम मनस्युत्साहमजनयत्। मद्गृहेऽन्दिका भवेदिति मम दीर्घकालीच्छा। पूर्वतनगृहेऽन्दिका नासीत्। गतमासेऽस्यां रिक्तान्दिकायामग्निज्वलनुपकरणं स्थापयितवान्। गतदिनेष्वेषान्दिका बहुवारमज्वलम्। सुन्दरं दृश्यम्। ऊष्णमपि ददाति सा। मम पुत्रायाप्येषान्दिका रोरुच्यते। यदा यदाहं ताञ्ज्वालयितुमुद्यतोऽस्मि स उत्साहेन कूर्दति करताडनङ्करोति च। यद्यहं तेन विना ताञ्ज्वालयति स क्रन्दति। अग्निञ्ज्वालयित्वा तस्याः पुरतरुपविशामोऽहं मम पुत्रो भार्या च। दूरदर्शनस्य पुरतस्तल्पासनयुपवेशनं स्थानेऽन्दिकायाः पुरतरुपविशामो वयम्। दूरदर्शनं पिधायाग्नेः पुरतः सम्भाषणङ्कुर्महे। पुत्रोऽपि तस्य क्रीडनकैः क्रीडति दूरदर्शनस्य पुरतरुपवेशनं स्थाने। तस्याः पुरतरुपविश्य पुस्तकपठनमपि मह्यं रोचते। प्रतिदिनं सायङ्कालेऽन्दिकाञ्जिज्वालिषा मन्मनस्यागच्छति। अस्मिञ्छीतकाले सा जाज्वल्यते वयं मोमुद्यन्ते च।

रविवार, 10 दिसंबर 2017

ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः

ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्।
ॐ शान्तिः शान्तिः शान्तिः॥

एतदुपनिषन्मन्त्रम्। प्रथमतः कठिनाः शब्दा निरीक्षामहे।
सुखिनः - एष ‘सुखिन्’ प्रातिपदिकस्य प्रथमविभक्तेर्बहुवचनम्।
निरायमयाः - एष ‘निरामय’ प्रातिपदिकस्य प्रथमविभक्तेर्बहुवचनम्।
कश्चिद्दुःखभाग्भवेत् - सन्धिविच्छेदङ्कृत्वा ‘कश्चित् दुःखभाग् भवेत्’ एते शब्दत्रयँल्लभ्यते।

अर्थः - सर्वे सुखिनोऽरोगिनश्च भूयासुः। सर्वे शुभं मङ्गलञ्च दृश्यासुः। कोऽपि दुःखं नानुभूयात्।

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

अर्थः - यथा सुप्तस्य सिंहस्य मुखे मृगाः स्वयमेव न प्रविशन्ति, मृगा उत्तिष्ठेन सिंहेन हन्यन्तां तथैव केवलं मनसि चिन्तनङ्कृत्वा कार्याणि न सिध्यन्ते। तानि परिश्रमङ्कृत्वैव सिध्यन्ते।

गुरुवार, 7 दिसंबर 2017

श्वेतफलकम्

ह्यः श्वेतफलकमक्रीणाम्। श्वेतफलकङ्क्रेतव्यमिति बहुभ्यो दिनेभ्यश्चिन्तनङ्कुर्वन्नासम्। अद्यत्वे सर्वेषूद्योगसाक्षात्कारेषु सङ्गणकसंविधिलेखनस्य कृते श्वेतफलकमुपयुज्यते। तस्य कृतेऽभ्यासावश्यकतास्ति। अपि च संस्कृतवर्गे काचन छात्रा मम गृहमागन्तुं मत्तः संस्कृतं पिपठिषति (एषेच्छा प्रकटय्यापि सा नागच्छतीति तु पृथग्विषयः)। तां पाठनस्य कृतेऽपि फलकमावश्यकम्। तस्मिन् फलके मम चतुर्वषीयपुत्रोऽप्यक्षरचित्राणां विन्यासः कर्तुं शक्नोति। तस्य लेखनस्याभ्यासो भवेत्। अहमपि केचन नूतनाः संस्कृतशब्दा विचाराश्चित्राणि च तस्मिन् फलके लिलेखिषामि। दूरदर्शनं पुरतरुपवेशनं स्थाने श्वेतफलकं पुरतर्यदि समयो यापयेवावयोर्मानसिकनिर्माणशक्ती वर्धेयाताम्। तच्छ्वेतफलकं द्विशतरुप्यकैः क्रीतम्। आपातत इदन्नाल्पमूल्यमिति प्रतिभाति परन्तु मम ममपुत्रस्य च मानसिकनिर्माणशक्ती यदि वर्धेयातां तर्हि तत्त्वल्पमूल्यमेव सिद्धङ्खलु।

बुधवार, 6 दिसंबर 2017

अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत

अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत ।
शनै: शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम्॥

सन्धिविच्छेदितरूपम् -
अतितृष्णा न कर्तव्या तृष्णां न एव परित्यजेत।
शनै: शनैः च भोक्तव्यं स्वयं वित्तम् उपार्जितम्॥

एतत् सुभाषितं मनुष्यस्य तृष्णाथवेच्छा विषयेऽस्ति। साधारणमनुष्यस्य बहव इच्छाः सन्ति। स प्रभूतं धनमर्जितुमिच्छति। कार्यालये समाजे चौन्नत्यँव्वर्धयितुमिच्छति। ताः सर्वा अपीच्छास्तीव्राः सन्ति।

अतितृष्णा न कर्तव्या - इच्छा करोतु परन्तु सेच्छा सीमिता भवेन्न तु प्रभूतानन्ता च।
तृष्णां नैव परित्यजेत - कानिचन नीतिशास्त्राणि सर्वा इच्छास्त्यजत्विति कथयन्ति। परन्तु एतद्वाक्यङ्कथयतीच्छा त्यक्तुमावशयकता नास्ति। सेच्छा केवलं सीमितमात्रायाङ्करोतु।

शनै: शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् - शनैः शनै इत्युक्ते मन्दं मन्दम्। इच्छा पूरयित्वा यदर्जितं तं मन्दं मन्दं भुनक्तु। कीदृशमर्जितम्? स्वयं वित्तमुपार्जितम्। वित्तमिइत्युक्ते धनम्। यानि सुखसुविधानि धनराशयः स्वकीयपरिश्रमेणार्जितानि तान्येव शनैः शनैर्भुनक्तु।

इदानीँव्वयमस्य सुभाषितस्यार्थः सङ्क्षिपतरूपेण वक्तुं शक्नुमः। इच्छाः करोतु परन्तु लघुमात्रायां न बहुमात्रायाम्। इच्छाः पूरयित्वा यदर्जितं तत् शनैः शनैर्भुनक्तु न वेगेन।

शनिवार, 25 नवंबर 2017

अलुक्समासः

सामान्यतः समासे पूर्वपदस्य विभक्तिर्लुप्यते। समस्तपदे यदि पूर्वपदस्य विभक्तिर्न लुप्यते तदालुक्समासो भवति। अलुक्समासस्तत्पुरुषसमासस्य भेदः।

युधि स्थिरः → युधिष्ठिरः
परस्मै पदम् → परस्मैपदम्
जनुषा अन्धः → जनुषान्धः (जन्मान्धः)
दूरात् आगतः → दूरादागतः

इदमवधेयम् - एतत्समासस्य प्रयोगश्चिकीर्षसि चेत् साहित्ये पूर्वं दृष्टं समस्तपदान्येव प्रयोक्तव्यानि। नूतनसमस्तपदानि न सृष्टव्यानि।

उपपदसमासः

समस्तपदे यद्युपपदं (पूर्वपदम्) उत्तरपदं कृदन्तरूपे विकारयति तदोपपदसमासो भवति। उपपदसमासस्तत्पुरुषसमासस्य भेदः। अस्य समासस्य विग्रहवाक्यमस्वपदविग्रहयुक्तोऽस्त्यत उत्तरपदं विग्रहवाक्ये न दृश्यते।

कुम्भं कारयति → कुम्भकारः (अत्र कारः इति कृदन्तरूपमपि च विग्रहवाक्ये न दृश्यते।)
धनं ददाति → धनदः
साम गायति → सामगः
भयं करोति → भयङ्करः
प्रियं वदति → प्रियंवदः

इदमवधेयम् - विग्रहवाक्ये तिङ्न्तं दृश्यते परन्त्वेष स्वपदविग्रहः। अतोऽस्मिन् समासे सुबन्तं तिङ्न्तेन सह समस्यतयिति न मन्तव्यम्। समासे सुबन्तं तिङ्न्तेन सह कदापि न योक्तव्यम्।

प्रादिसमासः

प्रादिसमासस्तत्पुरुषसमासस्य भेदः। प्र, परा, अप, सम इत्यादयो द्वाविंशतिः प्रादयः शब्दाः। ते परेण शब्देन समस्यन्ते। समासे यदि पूर्वपदं प्रादिरस्ति तदा प्रादिसमासो भवति।

प्रति गतः अक्षम् → प्रत्यक्षम्
परगतः आचार्यः → प्राचार्यः
अभिगतः मुखम् → अभिमुखम्
दुराचारः पुरुषः → दुष्पुरुषः
उत्क्रान्तः कुलात् → उत्कुलः

गतिसमासः

गतिसमासस्तत्पुरुषसमासस्य भेदः। ‘गति’ काचनाष्टाध्याय्यां विहिता संज्ञा। 'च्वि' 'डाच्' प्रत्ययान्तशब्दा ऊर्यादयः शब्दाश्च गतिसंज्ञकाः (अन्ये शब्दा अपि सन्ति, सर्वे नात्र लिखिताः)। गतिसंज्ञाशब्दः परेण शब्देन समस्यते।

अङ्गीकारं कृत्वा → ऊरीकृत्य
अशुक्लं शुक्लं कृत्वा → शुक्लीकृत्य
पटपटा इति शब्दं कृत्वा → पटपटाकृत्य
पुरस्कारं कृत्वा → पुरस्कृत्य
मनसि कृत्वा → मनसिकृत्य
अशुक्लं शुकलं भूत्वा → शुक्लीभूय

गुरुवार, 23 नवंबर 2017

कुसमासः

कुसमासस्तत्पुरुषसमासस्य भेदः। कुशब्दः सुबन्तेन समस्यते।

कुत्सितः पुरुषः → कुपुरुषः / कापुरुषः (गर्हितः पुरुषः, दुष्टः पुरुषः)
कुत्सितम् अन्नम् → कदन्नम्
कुत्सितः अश्वः → कदश्वः

इदमवधेयम्
पुरुषशब्दस्य परे कुशब्दः काशब्दे विकल्पेन परिवर्तते।
स्वराणां परे कुशब्दः ‘कद्’ शब्दे नित्यं परिवर्तते।

नञ्समासः

नञ्समासस्तत्पुरुषसमासस्य भेदः। नञ् (न) सुबन्तेन समस्यते।

न अश्वः → अनश्वः (यः न अश्वः सः)
न ब्राह्मणः → अब्राह्मणः (यः न ब्राह्मणः सः)
न उपलब्धिः → अनुपलब्धिः (उपल्बधेरभावः)
न विवादः → अविवादः (विवादस्याभावः)

इदमवधेयम्
नञ् + स्वरः → अन + स्वरः (न अश्वः → अनश्वः)
नञ् + व्यञ्जनः → अ + व्यञ्जनः (न विवादः → अविवादः)

सोमवार, 20 नवंबर 2017

अव्ययीभावसमासः

यदा प्रायः पूर्वपदमव्ययं प्रधानञ्चास्ति तदाव्ययीभावसमासो भवति। समस्तपदमप्यव्ययमस्ति। समस्तपदं नपुंसकलिङ्गेकवचनं भवति। अव्ययीभावसमासस्य भेदा बहवः। केचनैवात्र दीयन्ते।

अव्ययपूर्वपदम्
१. सप्तमीविभक्त्यर्थे - हरौ इति → अधिहरि
२. सामीप्यार्थे - कृष्णस्य समीपम् → उपकृष्णम्
३. समृद्ध्यार्थे - मद्राणां समृद्धिः → सुमद्रम्
४. व्यृद्ध्यार्थे (विगता वृद्धिः, नाशः, दरिद्रता) - यवनानां व्यृद्धिः → दुर्यवनम्
५. अभावार्थे - मक्षिकाणाम् अभावः → निर्मक्षिकम् (मक्षिकेभ्यो विमुक्तिः)
६. अत्ययार्थे (नाशः, समाप्तिः) - हिमस्य अत्ययः → अतिहिमम् (हिमस्य समाप्तिः)
७. असम्प्रत्यार्थे (अनुचिततार्थे) - निद्रा सम्प्रति न युज्यते → अतिनिद्रम्
८. पश्चादार्थे - विष्णोः पश्चात् → अनुविष्णु
९. शब्दप्रादुर्वभावे (शब्दस्य प्रकाशः) - हरिशब्दस्य प्रकाशः (उच्चारणः) → इतिहरि
१०. योग्यतार्थे - रूपस्य योग्यता → अनुरूपं (उचितम्)
११. वीप्सार्थे - ग्रामं ग्रामं प्रति → प्रतिग्रामं (प्रत्येके ग्रामे)
१२. अनतिक्रम्यार्थे - शक्तिमनतिक्रम्य → यथाशक्ति
१३. यौगपद्यार्थे (साकमार्थे) - चक्रेण युगपत् → सचक्रम् (चक्रेण सहैव)
१४. सादृश्यार्थे - हरेः सादृश्यम् → सहरि
१५. बहिरार्थे - वनात् बहिः → बहिर्वनम्
१६. मर्यादार्थे (मर्यादया विना) - आ हिमालयात् → आहिमालयम् (हिमालयोऽसमाविष्टः)
१७. अभिविध्यार्थे (मर्यादया सह) - आ हिमालयात् → आहिमालयम् (हिमालयः समाविष्टः)
१८. अभिमुख्यार्थे - अग्निं प्रति → प्रत्याग्नि
१९. आनुपूर्व्यार्थे (क्रमार्थे) - ज्येष्ठताया क्रमेण → अनुज्येष्ठम्
२०. सम्पत्त्यार्थे - क्षत्राणां सम्पत्तिः → सक्षत्रम्
२१. साकल्यार्थे (सहितार्थे) - तृणमापि अपरित्यज्य → सतृणम्
२२. अन्तार्थे (अन्तः पर्यन्तम्) - अग्निकाण्डं पर्यन्तम् → साग्नि
२३. अवधारणार्थे - यावन्ति नामानि → यावन्नामम्

अव्ययोत्तरपदम्
मात्रार्थे - शाकस्य लेशः (अल्पमात्रा) → शाकप्रति (अल्पमात्रायां शाकम्)

अव्ययपदरहितम्
१. पारेशब्दयुक्तः - गङ्गायाः पारे → पारेगङ्गम्
२. मध्येशब्दयुक्तः - गङ्गाया मध्ये → मध्येगङ्गम्
(टीका - यदि गङ्गापारे / गङ्गामध्ये लिख्येते तर्हि षष्ठीतत्पुरुषसमासो भविष्यति।)

द्वन्द्वसमासः

यदा सर्वाणि पदानि प्रधानानि तदा द्वन्द्वसमासो भवति। द्वन्द्वसमासः प्रमुखतस्त्रिविधा -

इतरेतरद्वन्द्वसमासः
यदा द्वौ द्वाधिका वा पदानामेकया क्रियया सहान्वयोऽस्ति।
माता च पिता च → मातापितरौ (उपयोगोदारहणम् - मातापितरौ पुत्रँल्लाडयतः।)
रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च → रामलक्ष्मणभरतशत्रुघ्नाः (उपयोगोदारहणम् - रामलक्ष्मणभरतशत्रुघ्ना मातृभ्यः प्रणमन्ते।)

समाहारद्वन्द्वसमासः
यदा सर्वाणि पदानि कश्चन समाहारा रचयन्ति (समस्तपदं सदैव नपुँसकलिङ्गेकवचनं भवति)।
संज्ञाश्च परिभाषाश्च एतासां समाहारः → संज्ञापरिभाषम्
(टीका - संज्ञाश्च परिभाषाश्च एतासां समाहारः (इतरेतरापि रचयितुं शक्यम्) → संज्ञापरिभाषाः)

कासुचित् स्थितिषु समाहारद्वन्द्वसमासो नित्यं भवति।
शरीरस्याङ्गानां विषये - पाणी च पादौ च एतेषां समाहारः → पाणिपादम्
जन्मजातशत्रुताविषये - अहि च नकुलं च अनयोः समाहारः → अहिनकुलम्
सङ्गीतस्यावयवा विषये - मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारः → मार्दङ्गिकपाणविकम् (ये जना मृदङ्गं पणवञ्च वादयन्ति तेषां समाहारः)
सेनयाया अवयवा विषये - रथिकाश्च अश्वारोहाश्च एतेषां समाहारः → रथिकाश्वारोहम्

एकशेषद्वन्द्वसमासः
यदैकपदमेव शिष्यते।
माता च पिता च → पितरौ
अजश्च अजा च → अजौ

द्विगुसमासः

द्विगुसमासस्तत्पुरुषसमासस्य कश्चन भेदः। यदा पूर्वपदं सङ्ख्यावाच्यस्ति तदा द्विगुसमासो भवति। अवधेयम् - येषु समस्तपदेषु पूर्वपदं सङ्ख्यावाच्यस्ति ते सर्वे न द्विगवः। यदि समस्तपदमुत्तरपदञ्चोभावेकां संज्ञामुल्लेखयतस्तर्हि तादृशः समासो द्विगुर्न प्रत्युत विशेषणपूर्वपदकर्मधारयसमासः।
सप्त ऋषयः → सप्तर्षयः
सप्तर्षयः (समस्तपदम्) संज्ञा, ऋषयः (उत्तरपदम्) संज्ञा चोभे अप्यृषीणामेकमेव समूहमुल्लेखयतः। अतोऽयं विशेषणपूर्वपदकर्मधारयसमासो न द्विगुसमासः।

द्विगुसमासस्य प्रमुखभेदास्त्रयः।

तद्धितार्थद्विगुः
यदा तद्धितप्रत्ययमुपयुज्य समस्तपदं साध्यते।
षण्णां मातॄणाम् अपत्यम् → षाण्मातुरः
द्वयोः मात्रोः अपत्यम् → द्वैमातुरः

उत्तरपदद्विगुः
यदा पूर्वपदं सङ्ख्यावाच्यस्ति समस्तपदञ्च कश्चनान्यां संज्ञामुल्लेखयति।
पञ्च गावः धनं यस्य सः → पञ्चगवधनः
अत्र द्वौ समासौ स्तः। पञ्चगवधन इति बहुव्रीहिसमासः। अस्मिन् बहुव्रीहिसमासे ‘पञ्गव’ इतयुत्तरपदद्विगुसमासः। यद्यस्मिन् समासे ‘धन’ पदं न अभविष्यत्तर्हि ‘पञ्चगव’ द्विगुर्नाभविष्यत् प्रत्युत ‘पञ्चगावः’ इति विशेषणपूर्वपदकर्मधारयसमासोऽभविष्यत्। किमर्थम्? यतः ‘पञ्चगावः’ (समस्तपदम्) संज्ञा ‘गावः’ (उत्तरपदम्) संज्ञामेवोल्लेखयति (अस्य लेखस्यादौ ‘अवधेयम्’ भागो दृश्यताम्)। यदि ‘पञ्चगावः’ स्थाने ‘पञ्चगवम्’ इति समस्तपदमलेखिष्यते तर्हि ‘पञ्चगवम्’ समाहारद्विगुसमासोऽभविष्यत्।

समाहारद्विगुः
यदा पूर्वपदं सङ्ख्यावाच्यस्ति समस्तपदञ्च कश्चन समाहार उल्लेखयति।
पञ्चनां गवां समाहारः → पञ्चगवम्
त्रयाणां भुवानां समाहारः → त्रिभुवनम्
अवधेयम् - समाहारद्विगुः समाहारद्वन्द्वस्यापेक्षया भिन्नः। समाहारद्वन्द्वे पूर्वपदं सङ्ख्यावाचि नास्ति।

रविवार, 19 नवंबर 2017

उन्नयनी

ह्यः कस्याञ्चित् पठ्यमानायाङ्कथायां ‘उन्नयनी’ शब्दो मया पठितम्। तस्यार्थो मया न ज्ञातः। शब्दकोशेऽपि लब्धुमसमर्थोऽहम्। तदानीं संस्कृतव्याकरणे सहायतया स्वयमेवास्य शब्दस्यार्थोऽवगन्तुमशक्नवमहम्। अस्मिञ्छब्दे ‘उद्‘ उपसर्गः ‘नी’ धातुश्च प्रयुज्येतयिति मयोहितम्।

उद् + नयनी → उन्नयनी (अनुनासिकसन्धिः)

किञ्चिद्वस्तूर्ध्वं नयतीति सन्दर्भो मयोहितम्। अनन्तरङ्कथायां सन्दर्भं दृष्ट्वा मयोहितँय्यत् ‘उन्नयनी’ शब्दस्यार्थः ‘एलिवेटर’ अस्ति।

उन्नयनी - योर्ध्वं नयति सा (समानाधिकरणबहुव्रीहिसमासः)

व्याकरणज्ञानेन स्वयमेव नूतनशब्दस्यार्थो मयोहितमिति ज्ञात्वा मन्मनसि महान् सन्तोष उदभवत्।

अङ्गं गलितं, पलितं मुण्डं

अद्य वयमादिशङ्कराचार्यलिखितं सुभाषितं पठिष्यामः। एतत् सुभाषितं तेन लिखितञ्चर्पटमञ्जर्यां दृश्यते। सुभाषितं इति -

अङ्गं गलितं, पलितं मुण्डं, दशनविहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चति आशा पिण्डम्॥

एतत्सुभाषितं मनुष्यस्यानन्तेच्छा विषयेऽस्ति।

अङ्गं गलितं - शरीरस्याङ्गानि ग्लायन्ति शक्तिक्षीणानि जातानि।
पलितं मुण्डं - मुण्डमित्युक्ते शिरः, पलितं मुण्डमर्थः - दीर्घायुवशात् तस्य शिरसि केशाः पलिता अथवा धूसरवर्णा भवन्ति।
दशनविहीनं जातं तुण्डम् - मुखस्य यस्मिन् भागे दन्ता वर्तन्ते तं तुण्डमुच्यते। दीर्घायुः कारणाद्मुखे दन्ता न सन्ति।

वृद्धो याति गृहीत्वा दण्डं - याति अर्थश्चलति - यतः स वृद्धोऽतः स दण्डङ्गृहीत्वा चलति।
तदपि न मुञ्चति आशा पिण्डम् - मुञ्चति ‘मुच्’ धातोः रूपम्। स वृद्धः, आशा, इच्छा, लिप्सा न मोचयति, यद्यपि स वृद्धस्तथापि तस्य बहव इच्छाः सन्ति - इत्यर्थः।

सुभाषितस्य सम्पूर्णार्थ इति - यद्यपि वृद्धावस्थायाः कारणात् कश्चचन मनुष्यस्याङ्गानि क्षीणानि जातानि, तस्य केशाः श्वेतवर्णा भवन्ति, तस्य मुखं दन्तहीनञ्जातं, स दण्डस्य सहायतया चलति तथापि स तस्य बहव इच्छा न मोचयति। तथापि स बहूनि वस्तूनि प्राप्तुमिच्छति। मनुष्यस्येच्छा अनन्ता इत्येतत् सुभाषितं सूचयति।

मंगलवार, 14 नवंबर 2017

वसुधैव कुटुम्बकम्

अद्य वयं हितोपदेशे दृष्टङ्कञ्चन श्लोकं पठिष्यामः। श्लोक इति -

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

सन्धिविच्छेदितरूपम् -
अयं निजः परः वा इति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधा एव कुटुम्बकम्॥

प्रथमवाक्यस्य सन्धिविच्छेदङ्कृत्वैतद्वाक्यँल्लभ्यते - अयं निजः परः वा इति गणना लघुचेतसाम् - प्रथमतः ‘लघुचेतसां’ इति शब्दस्य विश्लेषणङ्कुर्मः। ‘लघुचेतसां’ एष ‘लघुचेतस्’ पदस्य षष्ठीविभक्तेर्बहुवचनमस्ति। ‘चेतस्’ किं? ‘चेतस्’ इत्युक्ते मनोऽथवा बुद्धिः। ‘लघुचेतस्’ किम्? अल्पबुद्धिरथवा क्षीणबुद्धिः। ‘निजः’ अर्थः स्वस्य। ‘परः’ अर्थोऽन्यस्य। अतः प्रथमवाक्यस्यार्थ इति - एतद्वस्तु मम, तद्वस्त्वन्यस्येत्यल्पबुद्धियुक्ता जना गणयन्ति।

द्वितीयवाक्यं पठामः।
उदारचरितानां तु वसुधैव कुटुम्बकम् - सन्धिविच्छेदितरूपमिति - उदारचरितानां तु वसुधा एव कुटुम्बकम। ‘उदारचरितानां’ - पुनष्षष्ठीविभक्तिबहुवचनमस्त्यत्र। उदारचरिताः के? येषाञ्जनानाञ्चरित्रमुदारं ते उदारचरिताः। वसुधा का? पृथ्वी, जगत्, संसारः। कुटुम्बकङ्किम्? कुलमथवा वंशः। उदारजनास्समस्तजगत्तेषाङ्कुलमिव चिन्तयन्तीति द्वितीयवाक्यस्यार्थः।

इदानीँव्वयं सङ्क्षिप्तरूपेणास्य श्लोकस्यार्थो वक्तुं शक्नुमः। एतद्वस्तु मम तद्वस्त्वन्यस्य - इत्यल्पबुद्धिजनाश्चिन्तयन्ति। उदारजनास्तु समस्तजगत्तेषाङ्कुलमिव भावयन्ति।

रविवार, 12 नवंबर 2017

'कार्पोरेट' चलचित्रम्

‘कार्पोरेट’ इति हिन्दीचलचित्रमपश्यम्। किङ्कथेयम्? उत्तमञ्चलचित्रम्। किमर्थं भारतयेतादृशानि चलचित्राण्याधिक्येन न निर्मीयन्ते? सार्धद्वौघण्टा यावच्चलदेतच्चलचित्रङ्कदापि नीरसन्न कारयति। द्वे वाणिजसंस्थे साफल्यं साधयितुं सर्वाश्शालीनता नैतिकता अतिक्रम्य किङ्किङ्कर्तुं शक्नुत इति दर्शितमस्मिँश्चलचित्रे। सम्पूर्णचलचित्रं मयारुच्यत परन्तु मन्मतावेकस्मिन् भागे परिवर्तनँय्यदि क्रियेत चलचित्रमितोऽपि श्रेष्ठतरं भवेत्। यद्यपि तया किमपि दुष्कर्म न कृतं तथापि चलचित्रस्य मुख्यनायिका निशिस्संस्थाया अनैतिकताया सर्वे दोषास्स्वेच्छया स्वीकरोति। एतत्तु विलक्षणँव्विचित्रञ्च। चलचित्रे सातिबुद्धिमती दर्शिता। यानि दुष्कर्माणि तया न कृतान्येतादृशी बुद्धिमती सा युवती वस्तुतस्स्वस्या दोषाः कदापि न स्वीकुर्यात्। यद्यपि सा स्वेच्छया दोषा न स्वीकरोति तथापि तस्यास्संस्था कथमपि तस्यामुपरि सर्वे दोषाः पातयतीति दर्श्यम्। यदीत्यदर्शयिष्यत् तर्हि चलचित्रं श्रेष्ठतममभविष्यत्। तथाप्युत्तमञ्चलचित्रमिदम्। दृष्ट्वा महान् सन्तोषः प्राप्तः।

छात्रा मद्विचारा दृढीकरोति

कतिपयदिनानि पूर्वं मया प्रतिपादितँय्यच्छात्रास्संस्कृतवर्गे महत्कष्टान्यनुभवन्ति। असौ मत्सिद्धान्तः। ह्यर्यदभवत्तदमुं सिद्धान्तं दृढीकरोति। वर्गस्था काचन छात्रा मां दूरवाण्या सम्पर्कोऽकरोत्। सावदद्यद्वर्गे पाठवगमने सा बहूनि कष्टान्यनुभवति। कस्मात् कारणान्मया पृष्टम्। यतः पाठास्सदैव संस्कृतमाध्यमेन पाठय्यन्तेऽतः सा बहवो विषयावगन्तुन्न शक्नोति। यतः प्रश्ना अपि संस्कृतैव पृष्टव्या अतः सा प्रश्ना न पृच्छति। अपिच तस्या न्यूनवगमनभयात् सा वर्गन्नावरुरुत्सति तस्मात् सा प्रश्ना न पृच्छति। कृपया मामाङ्ग्लहिन्दीभाषयोर्वर्णयेति सा मामप्रार्थयत्। अन्यथा प्रायेण तस्या रुचिर्क्षीणा भवेदिति साब्रवीत्। किं मया नोक्तं पूर्वम्? संस्कृतमाध्यमेन पाठनं नोचितविचारः - कृतञ्चेच्छात्राणां रुचिरक्षीणा भवेत्? एष वृत्तान्तोऽस्य प्रमाणः। अहं तामवश्यमाङ्ग्लहिन्दीभाषयोः पाठयिष्यामि - वर्गे नापितु पार्थक्येन।

शुक्रवार, 10 नवंबर 2017

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥

सन्धिविच्छेदितरूपम् -
यदि वाचं प्रदास्यामि द्विजातिः इव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥

उपरितनश्श्लोका रामायणे दृश्यते। एते हनुमच्छब्दाः। यदा स सीतामुपगमनार्थं सन्नद्धमान आसीत् तदा स एतच्चिन्तयाञ्चक्रे। अस्मिञ्छ्लोके केवलमेकः कठिनशब्दः - द्विजातिः। द्विजातिरर्थो ब्राह्मन्।
अस्य श्लोकस्यार्थ इति - यदि स (हनुमान्) कश्चन ब्राह्मन्निव संस्कृतेन भाषिष्यते तर्हि सीता रावणः कश्चन ब्राह्मनरूपं धृत्वागच्छतीति मत्वा तस्माद्भेष्यति ।

गुरुवार, 9 नवंबर 2017

नाहं जानामि केयूरे

अद्य वयं रामायणे दृष्टङ्कञ्चन श्लोकं पठामः।

स्थितिरियम्। रावणः सीतामपाहरत्। यदा स सीतां पुष्पकविमानेन लङ्कान्नयमान आसीत्तदा सीता तस्या आभूषणान्याकाशाद्विमानादपातयत्। भूतले रामलक्षम्णौ वानराश्च तस्या अन्वेषणङ्कर्तुं प्रयतमाना आसन्। तान्याभूषणानि वानरैरलभ्यन्त। ते राममुपागच्छँस्तमाभूषणान्यदर्शयँश्च। परन्तु स सीताया वियोगकारणादतीवशोकग्रस्त आसीत्। स कोऽपि सम्भाषणङ्कर्तुन्नाशक्नोत्। तदानीं वानरा लक्ष्मणमाभूषणान्यदर्शयन्। आभूषणानि दृष्ट्वा लक्ष्मण इत्यवदत् -

नाहं जानामि केयूरे, नाहं जानामि कुण्डले।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दात्॥

न अहं जानामि केयूरे - केयूरमर्थो वलयं, केयूरं वलयमित्यादीनि कानिचन भुजाभूषणानि सन्ति। केयूरे - इति तु ‘केयूर’ प्रतिपादिकस्य प्रथमाविभक्तेर्द्विवनचनमस्ति - केयूरं केयूरे केयूरानि। यतो द्वे भुजे स्तोऽतो द्वे केयूरे स्तः।

कुण्डलं तु वयञ्जानीमः - कर्णाभूषणानि। कुण्डले अपि द्विवचने। नूपुरं तु पादाभूषणम् - नूपुरे अपि द्विवचने। नाहं जानामि केयूरे, नाहं जानामि कुण्डले। लक्ष्मणोऽवदत् - अहन्न जानामि एतान्याभषूणानि। कान्याभूषणानि? केयूरे कुण्डले च।

नूपुरे तु अभिजानामि - तदानीं सोऽवदत् - परन्त्वहमेते नूपुरे तु जानामि। कथं स नूपुरे अजानीत्। नित्यं पादाभिवन्दात्। नित्यं पादाभिवन्दादित्युक्ते - यतो लक्ष्मणः सीतायाः पादौ प्रतिदिनं वन्दते स्मातः स तस्याः पादौ प्रतिदिनं पश्यति स्म। तस्मात् कारणात् स तस्याः पादाभूषणानि जानाति स्म।

सङ्क्षिप्तरूपेऽस्मिञ्छलोके लक्ष्मणः कथयति स सीतायाः कर्णभुजाभूषणानि नाभिजानाति परन्तु स तस्याः पादाभूषणान्यभिजानाति।

सोमवार, 6 नवंबर 2017

संस्कृतसम्भाषणे प्रवाहः

गतदिने व्हाट्सैपसमूहे कश्चन जनः कस्यचन पण्डितस्य साक्षात्कारं प्रेषितवान्। तस्य साक्षात्कारं श्रुत्वा स संस्कृतस्य महापण्डित इति तु स्पष्टम्। परन्तु स सम्पूर्णसाक्षात्कारो हिन्दिभाषायामददन्न संस्कृतभाषायाम्? किमर्थम्? साक्षात्कारस्यादावेव स महाभाग उक्तवान् यदभ्यासाभावात् स संस्कृते सम्भाषणङ्कर्तुन्न शक्नोति। एतच्छ्रुत्वा किमाश्चर्यचकितोऽसि? अहन्न। अहञ्जाने सम्भाषणे प्रवाहं साधयितुं मार्ग एक एव। सम्भाषणं सम्भाषणं सम्भाषणम्। कोऽप्यन्यो मार्गो नास्ति। सम्पूर्णाष्टाध्याय्या अध्ययनङ्कृत्वावगत्वा चापि सम्भाषणे प्रवाहो न भवेत्। यदि संस्कृतसम्भाषणे प्रवाहः सिसात्ससि संस्कृतैव सम्भाषणङ्कर्तव्यम्।

वर्गस्य दशा

अहङ्कस्मिँश्चित् संस्कृतवर्गे वर्ते। वर्ग एकघण्टां यावत् प्रचलति। मम पात्रं तूपशिक्षकस्यैव। प्रायः सम्पूर्णवर्गे नीरवं तिष्ठामि केवलमन्ते द्वौ निमेषाभ्यामेव किञ्चित् सुभाषितं पाठयामि (तानि सुभाषितान्येवास्य जालस्थाने लिखामि)। प्रतिसप्ताहं छात्रसङ्ख्या न्यूना भवति। गतवर्गे केवलं द्वौ छात्रावास्ताम्। एतद्दृष्टवा मनश्चेखिद्यते। किमर्थं छात्रसङ्ख्या न्यूना जाता? वर्गे पाठं संस्कृतभाषयैव पाठ्यते। अन्यभाषाया वदनन्निषिद्धम्। छात्राः पाठस्यावगमने महत्कष्टमनुभवन्ति। तस्मात्तेषामरुचिः क्षीयते। अयं मत्सिद्धान्तः। यदि यथेच्छाहं पाठयितुं शक्नुयां तर्ह्यमादावाङ्ग्लभाषया माध्यमेन पाठयेयम्। कनिष्ठपक्षं छात्राणां रुचिरनुवर्तेत। यदा छात्राः संस्कृतव्याकरणस्य मूलसूत्राणि ज्ञास्यन्ति तदैव संस्कृतमाध्यमेन पाठयिष्यामि। अहमपि संस्कृतभाषया पिपाठयिषामि परन्तु वर्गे छात्रा न सन्ति चेत्कान् पाठयिष्यामि - तदानीं संस्कृतयुताङ्ग्लभाषायां प्रश्नस्य महत्वं तु शून्यम्भविता? वर्गे छात्रा रुच्या सहभागः कुर्युरिति प्रथमलक्ष्यम्भवतु। तदनन्तरमेवान्यानि लक्ष्यानि साधयितुञ्चेष्टा करणीया।

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति

इदानीङ्किञ्चित् सुभाषितं पठिष्यामः।

सुभाषितमिति -

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः॥

प्रथमवाक्येऽन्तिमशब्दो वर्जयित्वा सर्वे शब्दाः सुलभा एव। अतः प्रथमतः प्रथमवाक्यस्यान्तिमशब्दः पठामः।
पण्डितानुपाश्रयति - अत्र सन्धिविच्छेदः कृत्वा 'पण्डितान् उपाश्रयति' लभ्यते। पण्डितान् - अस्मिञ्छब्दे पण्डितशब्दस्य द्वितीयाविभक्तेर्बहुवचनमस्ति। उपाश्रयति - इत्युक्ते समीपे तिष्ठति। अतः पण्डितानुपाश्रयत्यर्थः पण्डितानथवा ज्ञानिनः समीपे तिष्ठति। प्रथमवाक्यस्यार्थः कः? यो मनुष्यः पण्डितान् समीपे पठति लिखति पश्यति प्रश्नाः पृच्छति।

द्वितीयवाक्यं पठामः।
तस्य दिवाकरकिरणैः नलिनीदलमिव विकास्यते बुद्धिः॥

दिवाकरकिरणैः - अस्मिञ्छब्दे द्वे पदे स्तः। एष षष्ठीतत्पुरुषसमासः। अत्र समासविग्रहङ्कृत्वा 'दिवाकरस्य' 'किरणैः' एते द्वे पदे लभ्येते। दिवाकरः कः? यो दिवसः कारयति स दिवाकरः। को दिवसः कारयति? सूर्यः खलु! अतो दिवाकरोऽर्थः सूर्यः।

नलिनीदलमिव - अत्रापि षष्ठीतत्पुरुषसमासोऽस्ति। त्रयः शब्दाः सन्ति। नलिनी दलम् इव। नलिनी किमस्ति? नलिनी इत्युक्ते कमलपुष्पम्। दलङ्किम्? कमलपुष्पस्य पर्णानि। अतो यथा कमलपुष्पस्य पर्णानि सूर्यस्य किरणैर्द्वारा विकसिता भवन्ति तथैव तस्य मुष्यस्य बुद्धिरपि विकसिता भवति - इति द्वितीयवाक्यस्यार्थः। कस्य मनुष्यस्य बुद्धिः? यः पण्डितान् समीपे तिष्ठति पठति लिखति च।

इदानीं सुभाषितस्य सम्पूर्णार्थो वक्तुं शक्नुमः। यो मनुष्यः पण्डितान् समीपे तिष्ठति पठति लिखति प्रश्नाः पृच्छति। येन प्रकारेण सूर्यस्य किरणैर्द्वारा कमलपुष्पँव्विकसितं भवति तथैव तस्य मनुष्स्य बुद्धिर्विकसिता भवति। अतः - सदैव बुद्धिमतः समीपे तिष्ठतु। सुसङ्गतिः प्राप्नोतु - इत्यस्य सुभाषितस्य सन्देशः।

मंगलवार, 17 अक्तूबर 2017

आधुनिकसंस्कृतसाहित्यस्य विविधता

अहमाधुनिकसंस्कृतसाहित्यं पिपठिषामि। तदर्थङ्कांश्चन कथाग्रन्थानक्रीणाम्। बह्यः कथाः पठित्वाशाभङ्गमनुभवामि। या विविधता पुरातनसाहित्ये बभूव सा नूतनसाहित्ये न दृश्यते। प्रायशः कथा भारतसंस्कृतिविषये सन्ति। विवाहाः, पुरातनराजानः, धर्माचरणम्, स्वतन्त्रता, नीतिशास्त्रम्, नानाभगवन्तः (कृष्णः, गणेश इत्यादयो भगवन्तः) प्रभृतिषु विषयेष्वेव कथा अवलम्बिताः। प्रायः कथाः प्राचीनकाले स्थिताः। याः कथा आधुनिककाले स्थितास्ता अपि बहुदशकेभ्यः पूर्वकाले स्थिताः। एकविंशतिशताब्द्यां स्थिताः कथा दुर्लभाः। केन कारणेन? लेखकाः सर्वदा स्वानुभवानुसारं लेखाँल्लिखन्ति। ये जनाः संस्कृतलेखने निपुणास्ते प्रायर्वृद्धाः। अतस्तेषाङ्कथाः पुरातनकालस्य विषययेव। आधुनिकसाहित्यं रोमाञ्चकङ्करणाय नूतनविषयानुपयुज्य कथारचना करणीया। के नूतनविषयाः? अद्यत्वे ये स्थितिविषया वर्तन्ते तेषामुपयोगः करणीयः। पूर्वोक्तविषया अद्यत्वेऽपि सन्ति परन्तु बहवो नूतनाविषया अपि विद्यमानाः। विज्ञानम्, अद्यतन्यार्थिकस्थितिः, आधुनिकसङ्गणकविषयाः, अन्तरिक्षयात्राकल्पना, आधुनिकनीतिशास्त्रम्, प्रावासीजीवनम्, प्रदूषण, आधुनिकरोगाः, तन्त्रज्ञानम् - एतान् विषयेषु पर्याश्रिताः कथा अपि निर्माणीयाः। अहञ्चिन्तयाम्यदेकान्तरिक्षयात्राकथां लिखेयम्।

शनिवार, 14 अक्तूबर 2017

अन्नदानं परं दानं विद्यादानमतः परम्

अन्नदानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया॥

सन्धिविच्छेदितरूपम्
अन्नदानं परं दानं विद्यादानम् अतः परम्।
अन्नेन क्षणिका तृप्तिः यावत् जीवं च विद्यया॥

अस्य सुभाषितस्यार्थोऽयम् -
अन्नदानं श्रेष्ठमस्ति। तस्माद्वविद्यादानं श्रेष्ठतरम्। अन्नङ्गृहीत्वा क्षणमात्रेण तृप्तिः प्राप्यते परन्तु विद्या प्राप्य या तृप्तिः प्राप्यते सा आजीवनं वर्तते।

बुधवार, 11 अक्तूबर 2017

बहुव्रीहिसमासः

अस्मिँल्लेखे वयं बहुव्रीहिसमासविषये पठिष्यामः। यदा पूर्वोत्तरुभयोः पदयोः किमपि पदम्प्रधानन्नास्ति तदा बहुव्रीहिसमासो लभ्यते। एते बहुव्रीहिसमासस्य भेदाः -

समानाधिकरणबहुव्रीहिसमासः
यदोभे पदे समानविभक्तौ वर्तेते।
स्थितप्रज्ञः → स्थिता प्रज्ञा यस्य सः
जितः आत्मा येन सः → जितात्मा
ज्ञानं चक्षुः येषां ते → ज्ञानचक्षुः

व्याधिकरणबहुव्रीहिसमासः
यदोभे पदे भिन्नविभक्तौ वर्तेते।
चक्रं पाणौ यस्य सः → चक्रपाणि
ऊर्णं नाभौ यस्य सः → ऊर्णनाभः

सङ्ख्योत्तरपदबहुव्रीहिसमासः
यदोत्तरपदं सङ्ख्यावाच्यस्ति।
विंशतिः समीपे ये सन्ति → उपविंशाः (नित्यं बहुवचनान्तः)
त्रिंशत् समीपे ये सन्ति → उपत्रिंशाः
पञ्चविंशतेः आसन्न → आसन्नपञ्चविंशाः
सहस्रात् अधिकाः → अधिकसहस्राः

सङ्ख्योभयपदबहुव्रीहिसमासः
यदोभे पदे सङ्ख्यावाचिनौ स्तः।
द्वौ वा त्रयः वा → द्वित्राः
पञ्च वा षड् वा → पञ्चषाः
त्रयः वा चत्वारः वा → त्रिचतुराः

सहपूर्वपदबहुव्रीहिसमासः
यदा पूर्वपदं ‘सह’ इत्यर्थं सङ्केतयति।
पुत्रेण सह वर्तते इति → सपुत्रः
कर्मणा सह वर्तते इति → सकर्मकः

व्यतिहारलक्षणबहुव्रीहिसमासः
यदा किञ्चिद्वस्तुनो विनिमयक्रिया वर्तते (सदैवाव्ययानि)।
केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् → केशाकेशि
मुष्टिभिः मुष्टिभिः प्रहृत्य इदं युद्धं प्रवृत्तम् → मुष्टीमुष्टि
बाहौ बाहौ गृहीत्वा इदं युद्धं प्रवृत्तम् → बाहूबाहवि

दिगन्तराललक्षणबहुव्रीहिसमासः
विदिक्षु
दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालम् → दक्षिणपूर्वा (आग्नेयी)
पूर्वस्या उत्तरस्याश्च दिशोर्यदन्तरालम् → पूर्वोत्तरा (ऐशानी)
उत्तरस्याः पश्चिमस्याश्च दिशोर्यदन्तरालम् → उत्तरपश्चिमा (वायवी)
पश्चिमस्या दक्षिणस्याश्च दिशोर्यदन्तरालम् → पश्चिमदक्षिणा (नैर्ऋती)

नञबहुव्रीहिसमासः
नञतत्पुरूषसमास इव परन्तु किमपि पदम्प्रधानन्नास्ति। समस्तपदङ्किञ्चिदन्यद्वस्तूल्लेखयति।
अधनः → अविद्यमानं धनं यस्य सः
अनपत्यः → अविद्यमानं अपत्यं यस्य सः

प्रादिबहुव्रीहिसमासः
यदा प्रादिगणे दत्ताः शब्दा उपयुज्यन्ते।
निर्गता दया यस्मात् सः → निर्दयः
उद्गतः गन्धः यस्यः सः → उद्गन्धिः

उपमानपूर्वपदबहुव्रीहिसमासः
यदा पूर्वपदमुपमानमस्ति। उपमानपूर्वपदकर्मधारयसमास इव परन्तु समस्तपदङ्किञ्चिदन्यद्वस्तूल्लेखयति।
गजाननम् इव आननं यस्य सः → गजाननः
उष्ट्रमुखम् इव यस्य सः → उष्ट्रमुखः
जलजे इव अक्षिणी यस्या सा → जलजाक्षी
घटः इव ऊधः यस्या सा → घटोघ्नी (गौः)

बुधवार, 4 अक्तूबर 2017

ॐ सह नाववतु सह नौ भुनक्तु

संस्कृतभाषायां बहवः श्लोका मन्त्राणि च वर्तन्ते। दैनन्दिनजीवनेऽर्थो ज्ञातो विनास्माभिर्बहवः श्लोका बहूनि मन्त्राणि श्रूयन्तयुच्यन्ते च। एतन्न समीचीनम्। यानि मन्त्राणि वयमुच्चारयामः शृणुमश्च तेषामर्था अपि बोधनीयाः। अद्य वयमेतस्य शान्तिमन्त्रस्य विषये पठिष्यामः।

मन्त्रमिति -
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्ति शान्ति शान्तिः॥

सन्धिना विना रूपम् -
ॐ सह नौ अवतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्वि नौ अधीतम् अस्तु मा विद्विषावहै॥
ॐ शान्ति शान्ति शान्तिः॥

ॐ सह नाववतु। ॐ - हिन्दुधर्मे ॐ विशेषध्वनिरस्ति। ॐ भगवानथवा परमात्मोल्लेखयति। नाववतु - अस्मिञ्छब्दे सन्धिरस्ति। सन्धिविच्छेदः कृत्वा - ‘नौ अवतु’ एतौ द्वौ शब्दौ लभ्येते। ‘नौ’ अर्थ आवाम्। आवाङ्कौ? गुरुः शिष्यश्च। ‘अवतु’ अर्थः - रक्षा करोतु। अतोऽस्मिन् वाक्ये गुरुः शिष्यश्च भगवन्तं प्रार्थना कुरुतः। हे भगवन्! आवां रक्षा करोतु - इत्यर्थः।

सह नौ भुनक्तु - ‘भुनक्तु’ इति भुज् धातोः रूपम्। सामान्यतः ‘भुनक्ति’ अर्थो भोजनक्रियाविषयेऽस्ति परन्त्वत्र ‘भुनक्तु’ अर्थो रमणीयमस्ति । हे भगवन्! आवयोरध्ययनक्रिया रमणीया भवेत् - इति प्रार्थना।

सह वीर्यं करवावहै - ‘वीर्यं’ शब्दः ‘वीर’ शब्दस्य भावार्थकं रुपमस्ति। आवाभ्यां वीर्यमथवा शौर्यं युक्तानि कार्याणि क्रियेरनिति प्रार्थना।

तेजस्विनावधीतमस्तु - अत्र सन्धिविच्छेदः कृत्वा - तेजस्विनौ, अधीतम्, अस्तु - एते त्रयः शब्दा लभ्यन्ते। तेजस्वि- ‘तेजस्विन्’ नपुंसकलिङ्गप्रथमाविभक्तिरेकवचनमस्ति। ‘अधीतम्’ अर्थः ‘अध्ययन करणम्’। तेजस्वि नौ अधीतम् अस्तु - यदावां पठावस्तत्तेजस्वि भवतु।

मा विद्विषावहै - 'मा' इति निषेधार्थकअव्ययोऽस्ति। मा कुरु। चिन्ता मास्तु - वयञ्जानीमः। विद्विषावहै - ‘विद्वेष’ अर्थः - द्वेषभावना, जुगुप्सेत्यादयः। अतः - हे भगवन्! आवाभ्यां द्वेषो न करणीय इत्यर्थः। अन्ततः ‘ॐ शान्तिः शान्तिः शान्तिः’ कथयित्वा शान्त्रिमन्त्रं समापयामः।

रविवार, 1 अक्तूबर 2017

कर्मधारयसमासः

पूर्वतनलेखेऽहं सामान्यतत्पुरुषसमासविषयेऽलिखम्। समासो विस्तरो विषयः। अस्मिँल्लेखे वयङ्कर्मधारयसमासः कुत्रोपयोक्तुं शक्यतयिति पश्यामः। कर्मधारयसमासस्तत्पुरुषसमासस्य भेदः।

विशेषणपूर्वपदकर्मधारयसमासः
यदा पूर्वपदमोत्तरपदस्य विशेषणो भवति।
दीर्घः रज्जुः → दीर्घरज्जुः
उन्नतः वृक्षः →उनन्नतवृक्षः

विशेषणोत्तरपदकर्मधारयसमासः
यदोत्तरपदं पूर्वपदस्य विशेषणो भवति।
वैयाकरणः खसूचिः → वैयाकरणखसूचिः
कविः श्रेष्ठः → कविश्रेष्ठः

विशेषणोभयपदकर्मधारयसमासः
यदोभौ पदौ विशेषणौ भवतः।
शीतम् ऊष्णम् → शीतोष्णम्
कृतम् अकृतम् → कृताकृतम्

उपमानपूर्वपदकर्मधारयसमासः
यदा पूर्वपदोपमानोऽस्ति।
कुसुमम् इव कोमलम् → कुसुमकोमलम्
वज्रम् इव कठोरम् → वज्रकठोरम्

उपमानोत्तरपदकर्मधारयसमासः
यदोत्तरपदोपमानोऽस्ति।
पुरुषः व्याघ्र इव → पुरूषव्याघ्रः
नरः शार्दूल इव → नरशार्दूलः

अवधारणापूर्वपदकर्मधारयसमासः
यदा पूर्वपदावधारणास्ति।
गुरु एव देवः → गुरुदेवः
विद्या एव धनम् → विद्याधनम्

सम्भावनापूर्वपदकर्मधारयसमासः
यदा पूर्वपदँय्यद्यपि संज्ञा भवति तथापि तद्विशेषण इवाचरति।
दिल्ली इति नगरी → दिल्लीनगरी
नारिकेल इति वृक्षः → नारिकेलवृक्षः
दुष्यन्तः इति नृपः → दुष्यन्तनृपः
गीता इति ग्रन्थः → गीताग्रन्थः

मध्यमपदलोपीकर्मधारयसमासः
यदा विग्रहवाक्ये मध्यमपदं दृश्यते परन्तु समासे तल्लुप्यते।
छायाबहुला वृक्षाः → छायावृक्षाः
द्वयाधिका दशः → द्वादशः

मयूरव्यंसककर्मधारयसमासः
ये तत्पुरुषसमासा अन्यगणेषु नान्तर्भवितुं शक्यन्ते तेऽस्मिन् गणे समाविष्टाः। अस्मिन् गणे बहवः समासाः सन्ति। दैनन्दिनजीवनयुपोगमभावादुदाहरणान्यत्र न दीयमानानि।

शनिवार, 30 सितंबर 2017

तत्पुरुषसमासः (सामान्यः)

संस्कृतव्याकरणे सन्धिः समासश्चैतावुभावपि जटिलविषयौ कथ्येते। अयँल्लेखः समासविषये। अत्राहं समासप्रकरणे दत्तानि बहूनि सूत्राणि न वर्णयामि। तदर्थङ्कोऽपि व्याकरणपुस्तकं पठितव्यम्। अस्य लेखस्योद्देश्यः सूत्राणि विवरणं दत्तुन्नास्ति प्रत्युत दैनन्दिनजीवने समासः कदोपयोक्तुं शक्यतेऽस्य वर्णनकरणमस्ति। अत्र केवलं सामान्यतत्पुरुषसमासस्य भेदा दीयन्ते। तत्पुरुषसमासस्यान्ये भेदाः (कर्मधारयः, द्विगुरित्यादयः) पृथग्लेखेषु दास्यन्ते।

प्रथमतत्पुरुषसमासः
पूर्व, अपर, अधर, उत्तर, अर्ध - यदैते प्रयुज्यन्ते तदा समासः प्रयुज्येत।
अपरं गृहस्य → अपरगृहम्
उत्तरं रात्रः → उत्तररात्रः

द्वितीयतत्पुरुषसमासः
गमनार्थे प्रापणे च प्रयुज्येत।
ग्रामं गतः → ग्रामगतः
व्याकुलता आपन्नः → व्याकुलतापन्नः
पुस्तकं प्राप्तः →पुस्तकप्राप्तः

तृतीयतत्पुरुषसमासः
तेन कृतं वा तेन माध्यमेन कृतमित्यर्थयोः प्रयुज्येत।
मया विरचितंम् → मद्विरचितम्
रामेण लिखितम् →रामलिखितम्
खड्गेन छिन्नम् →खड्गछिन्नम्

चतुर्थीतत्पुरुषसमासः
तस्यै हितमित्यर्थे प्रयुज्येत।
तस्यै हितम् → तद् हितम् → तद्धितम्
रामाय अर्थम् →रामार्थम्

पञ्चमीतत्पुरुषसमासः
भयमार्थे प्रयुज्येत।
चोरात् भयम् → चोरभयम्

षष्ठीतत्पुरुषसमासः
अयं समासोऽतिसुलभं प्रातिभञ्च। दैनन्दिनभाषायामस्य समास्योपयोक्तुं बहवोऽवसरा वर्तन्ते। यत्रापि षष्ठीविभक्तिं प्रयुज्यते तत्राप्यस्य समासस्योक्तुं शक्यते।
मम पुस्तकम → मद् पुस्तकम् → मत्पुस्तकम्
गृहस्य भित्तिः →गृहभित्तिः

सप्तमीतत्पुरुषसमासः
निपुणताविषये प्रयुज्येत।
शास्त्रेषु निपुणः → शास्त्रनिपुणः

मंगलवार, 19 सितंबर 2017

पिबन्ति नद्यः स्वयमेव नाम्भः

पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः॥

एतत् सरलं सुभाषितमेव।

पिबन्ति नद्यः स्वयमेव नाम्भः - अस्मिन् वाक्ये केवलमेकः शब्दः कठिनः, नाम्भः। नाम्भः - अयं नञसमासः। समासविगृहङ्कृत्वा - न, अम्भः - एतौ द्वौ शब्दौ लभ्येते। अम्भः अर्थो जलम्। नद्यः स्वानाञ्जलं न पिबन्तीति वाकस्यार्थः।

स्वयं न खादन्ति फलानि वृक्षाः - एतत्त्वति सुलभं। वृक्षाः स्वानां फलानि न खादन्ति - सत्यमेव।

नादन्ति सस्यं खलु वारिवाहाः - न अदन्ति। अदन्ति अत्राद्धातुर्दृश्यते। अदन्त्यर्थः खादन्ति। सस्यमित्युक्ते धान्यवनस्पतयः - उदारणत ओदनं, तण्डुलमित्यादीनि।
वारिवाहाः - अर्थः कः? वारिवाहाः - अयं व्याधिकरणबहुव्रीहिसमासः। - यो वारि वहति सः। कः वारि वहति? मेघा वारि वहन्ति। अतो वाक्यस्यार्थः - मेघाः सस्यानि न खादन्ति। ते तानि वारि ददति।

परोपकाराय सतां विभूतयः - विभूतयः - एष विभूति शब्दस्य बहुवचनं - विभूत्यर्थान्महान्ता, सतां - अर्थः सज्जनपुरुषाणां। सतां विभूतयः - अर्थात् सज्जनपुरुषाणां महान्ता।
अतो वाक्यस्यार्थ इति - महात्मनोऽन्येषाङ्कल्याणायैव जीवन्ति।

सङ्क्षिप्तरूपेण सुभाषितस्यार्थ इति - यथा नद्यो वृक्षा मेघा अन्येभ्यो जलं फलं ददति तथैव सज्जनपुरुषा अन्येषाङ्कल्याणायैव जीवन्ति।

शनिवार, 9 सितंबर 2017

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्।। (६.२७)

अयङ्कश्चन गीताश्लोकः।

पदच्छेदः-
प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम्।

शब्दार्थाः-
उपैति - उपगच्छति
शान्तरजसं - उद्वेग्ना रहितं
ब्रह्मभूतम् - जीवनमुक्तिः, परमात्मना सह एकत्वम्
अकल्मषम् - दूषणरहितम्, पापरहितम्

तात्पर्यम् - यस्य मनसि शान्तिरस्ति स उत्तमं सुखं प्राप्नोति। तस्य मनः पापरहितं भवति। एतादृशो नरो जीवनमुक्तिः परमात्मना सहैकत्त्वञ्च प्राप्नोति।

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥

अमुष्य सुभाषितस्यार्थः कः?
करुणायुक्तान्यथवा समीचीनि वचनान्युक्त्वा सर्वे जीवानि प्रसन्ना भवन्सतीति प्रथमवाक्यस्यार्थः।

द्वितीवाक्ये प्रथमपदस्य सन्धिविच्छेदः कृत्वा त्रयः शब्दा लभ्यन्ते - तस्मात् तत् एव।
वक्तव्यङ्कः? यदुच्यतां तद्वक्त्व्यम्। तस्मात्कारणात्तद्वक्तव्यम्। कस्मात्कारणात्? समीचीनानि वचनान्युक्त्वा जीवानि प्रसन्ना भवन्ति - इति कारणात्। समीचीनां वचनानाङ्कोऽप्यभावो नास्ति अतो वदने सङ्कोचो मा कुरु।

सङ्क्षिप्तरूपेण सुभाषितस्यार्थ इति -
सर्वाणि जीवानि करुणायुक्तान्यथवा समीचीनानि वचनान्युक्त्वा प्रसन्ना भवन्ति। अस्मिञ्जगति करुणायुक्तानां वाक्यानाङ्कोऽप्यभावो नास्ति। तस्मात्कारणाद्यदा यदा वयङ्कानिचन वचनानि वदामस्तेषु करुणायुक्तानि वचनान्यवश्यं प्रयोक्त्वयं।

रविवार, 3 सितंबर 2017

दिशः

भूतवर्तमानकालयोर्दिशः सर्वदा महत्वपूर्णाः। संस्कृतभाषायां दिशानां बहूनि नामानि सन्ति। कानिचन नामानीमानि -

पूर्वा - प्राची, ऐन्द्री
पश्चिमा - प्रतीची, वारुणी
उत्तरा - उदीची, कौबेरी
दक्षिणा - अवाची, याम्या

पूर्वोत्तरा - ऐशानी
पश्चिमोत्तरा - वायवी
दक्षिणपूर्वा - आग्नेयी
दक्षिणपश्चिमा - नैर्ऋती

अन्तिमचतस्रो दिशो विदिश इत्युच्यन्ते। अमूभिर्दिगन्तराललक्षणबहुव्रीहिसमासोऽपि विरच्यन्ते।

सुभाषितम्

सुभाषितम् - अस्य शब्दस्य का परिभाषा? भाषितमित्युक्ते ‘उक्तं वचनं’। अतः सु-भाषितम् - समीचीनँव्वचनमथवा बुद्धियुक्तँव्वचनमित्यर्थः। इदानीँव्वयमेकं सुभाषितम्पठिष्यामः। परन्त्वेतत्सुभाषितं विशेषमस्ति। एतत्सुभाषितं सुभाषितस्य विषयैवास्ति। एतत्सुभाषितमिति-

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
ततोऽपि काव्यं मधुरं तस्मादपि सुभाषितम्॥

प्रथमतः प्रथमवाक्यस्यान्तिमशब्दं पश्यामः। गीर्वाणभारती - एतस्मिञ्छब्दे द्वौ शब्दौ स्तः। गीर्वाण भारती च। गीर्वाणार्थः - देवः, भगवान्, ईश्वरः इत्यादयः। भारतीत्युक्ते - वाणी, वचनानि, भाषा इत्यादयः। अतो गीर्वाणभारती शब्दस्यार्थः कः? या भाषा देवानां भाषा सा गीर्वाणभाषा (अयं व्यधिकरणबहुव्रीहिसमासः - या भारती गीर्वाणानां सा)। कस्या भाषाया एतदुचितं विवरणं? संस्कृतभाषैव खलु। दिव्यार्थः कः? दिव्यशब्दो देवशब्दादुत्पद्यते। अतो दिव्यार्थः - स्वर्गादवतरिता। सम्प्रति वयं प्रथमवाक्यस्यार्थोऽवगन्तुं शक्नुमः। सर्वासु भाषासु संस्कृतभाषैवातीवमधुरा दिव्या चेति प्रथमवाक्यस्यार्थः।

द्वितीयवाक्यं पश्यामः। ततोऽपि काव्यं मधुरं तस्मादपि सुभाषितम्। ततोऽपि - सन्धिविच्छेदः कृत्वा - ततः अपि इत्येतौ शब्दौ लभ्येते। ततः अपि काव्यं मधुरं - इत्युक्ते भाषाया अपेक्षया कविता मधुराः सन्ति। तस्मादपि सुभाषितम् - पुनर्सन्धिविच्छेदः कृत्वा तस्मात् अपि इत्येतौ शब्दौ लभ्येते। तस्मात् अपि सुभाषितमर्थः कः? कविताभिरपेक्षया सुभाषितानि मधुराणि सन्ति।
इदानीँव्वयमेतस्य सुभाषितस्यार्थस्संक्षिप्तरूपे कथयितुं शक्नुमः - सर्वासां भाषानामपेक्षया संस्कृतं मधुरा। संस्कृतभाषाया अपेक्षया संस्कृतभाषायां विरचिताः कविता मधुराः। कवितानामपेक्षया सुभाषितान्यर्थाद्बुद्धियुक्तानि वचनानि मधुराणि।

गुरुवार, 31 अगस्त 2017

ऐश्वर्यस्य विभूषणं सुजनता

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यसंयमो
ज्ञानस्योपशमो कुलस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्॥

कस्यचिद्वस्तुनः किमाभूषणमस्तीत्येतत् सुभाषितङ्कथयति। ऐश्वर्यस्य विभूषणं सुजनता - ऐश्वर्य इत्युक्ते सिद्धिः, सुजनता अर्थः कः? अन्याञ्जनान् प्रत्युदारता - अतः सिद्धेराभूषणमुदारतास्तीत्यर्थः।

शौर्यस्य वाक्यसंयमः - वीरताया आभूषणँव्वाण्यां संयमोऽस्ति। तन्नाम वाण्यां नियन्त्रण इति वीरताया आभूषणम्।

ज्ञानस्य उपशमः - उपशम इत्युक्ते धैर्यः, सहनशीलता इत्यादयः। अतो ज्ञानस्याभूषणं धैर्योऽथवा सहनशीलतास्ति।

कुलस्य विनयो - विनयोऽर्थः कः? विनयशब्दस्यार्थो नम्रताथवा शालीनता। अत उन्नतोथवा साधु कुटुमबस्याभूषणं नम्रता शालीनता वास्ति।

वित्तस्य पात्रे व्ययः - वित्तशब्द्स्यार्थो धनम्। साधुकार्यार्थं दानमिति धनस्याभूषणमस्ति।

अक्रोधस्तपसः - तपस आभूषणङ्क्रोधे नियन्त्रणः।

क्षमा बलवतां - शक्तिमाननरस्याभूषणङ्क्षमास्ति।

धर्मस्य निर्व्याजता - व्याज इत्युक्ते छलकपटः, निर्व्याजो विपरीतार्थः - अतो धर्मस्याभूषणञ्छलकपटस्याभावः।

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्। एतद्वाक्यङ्किङ्कथयति? सद्योऽस्माभिर्बहवो गुणा गणिताः । एतेषां सर्वेषाङ्गुणानां मूलकारणङ्किं? एतेषाङ्गुणानां मूलकारणमुत्तमचरित्रमेवास्ति। अत उत्तमचरित्रं सर्वोच्चतमाभूषणमस्ति।

रविवार, 20 अगस्त 2017

पापान्निवारयति योजयते हिताय

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥

सन्धिना विना रूपम्
पापात् निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद् गतं च न जहाति ददाति काले
सद् मित्रलक्षणम् इदं प्रवदन्ति सन्तः॥

व्याख्या - उत्तममित्रस्य लक्षणानि कानि इति एषा सुभाषिता ज्ञापयति। सः त्वां पापात् दूरं करोति। सः यः करोति तव हिताय एव। यदि त्वयि अपगुणाः सन्ति स तान् गोपयति। अपि च गुणान् प्रकटीकरोति। आपत्काले स त्वया सह तिष्ठति। त्वां न त्यजति। यस्मिन् काले साहाय्यम् आवश्यकं स तत् तुभ्यं ददाति। एतानि लक्षणानि सन्ति उत्तमस्य मित्रस्य इति वदन्ति मेधाविनः।

शनिवार, 19 अगस्त 2017

तत्त्वमसि

अद्य वयमेकस्य प्रसिद्धवाक्यस्य विषये चर्चा कुर्मः। एतद्वाक्यं व्याकरणस्य दृष्ट्याति सरलमस्ति परन्तु तस्यार्थो गभीरः। एतद्वाक्यमिति -

तत्त्वमसि

कदाचिद्भवत्सु कैश्चन जनैरेतद्वाक्यं पूर्वमेव श्रुतम्। इदँव्वाक्यञ्चन्दयोगोपनिषदे पठितुं शक्यते। तस्मिञ्छास्त्रयेतद्वाक्यमुड्डलकस्तस्य पुत्रः श्वेतकेतुरेतयोर्मध्ये प्रवर्तमाने सम्भाषणे श्रूयते। इदँव्वाक्यं वेदान्तसनातनधर्मे ‘महावाक्यम्’ इति नाम्नोच्यते।

एतदतिलघुवाक्यम् - सामान्यत एकशब्दरूपे लिख्यते श्रूयते च परन्त्वस्मिन् वाक्ये त्रयः शब्दा सन्ति। सन्धिविच्छेदः कृत्वा त्रयः शब्दा लभ्यन्ते - तत्, त्वम्, असि।

वयं पूर्वमेव जानीमः ‘तत्’ इति शब्दः किमस्ति - ‘तत्’ नपुंसकलिङ्गसर्वनाम - तत् ते तानि, ‘त्वं’ इत्युक्ते भवान् - त्वं युवां यूयम्। असि - एष शब्दो कः? - ‘असि’ अस् इति धातोर्मध्यमपुरुषस्यैकवचनमस्ति - समरणार्थमस् धातोः रूपाणि वदामि - अस्ति स्तः सन्ति असि स्थः स्थ अस्मि स्वः स्मः। उदाहरणार्थं

स बालकोऽस्ति। त्वं बालकोऽसि।

परन्त्वेतद्वाक्यं ‘तत्’ इति शब्दमाध्यमेन कस्योल्लेखः करोति? अत्र ‘तत्’ ब्राहमनमुल्लेखयति। अत्र ब्राहमनशब्दस्य अर्थः पण्डितः, अर्चकः, भिक्षुक इत्यादयो नास्ति परन्तु ब्राहमनशब्दस्यार्थः - परमात्मा, ईश्वर, तत्वता, ब्रह्माण्ड इत्यादयोऽस्ति। अत एतद्ववाक्यङ्कथयति - त्वं परमात्मा चैकैव।

एतदाश्चर्यजनकँव्वाक्यङ्कथं सत्यं भवितुमर्हति? अवगमनार्थं यदा कदा ‘अहं’ एष शब्दस्य विषये त्वञ्चिन्तयसि, केवलं शारीरिकरूपेण मा चिन्तय। शरीरस्त्वस्थाय्यल्पकाल्यस्ति । मृत्युसमये शरीरस्य नाशो भवति। परन्त्वात्मा मृत्योः पश्चादेव जीवति। स कञ्श्चनान्यशरीरं धारयति। अतोऽस्मिन् वाक्ये ‘त्वं’ इति शब्दस्तवात्मानमुल्लेखयति न तव शरीरम् । तवात्मा परमात्मैकैव - इत्यर्थः।

अस्य वाक्यस्य विषयेऽधिकज्ञानमिच्छन्तु चेत् - अद्वैतवेदान्तमिमांसा विषये पठन्तु।

तमसो मा ज्योतिर्गमय

अद्य वयमेकः प्रसिद्धः श्लोकः पठामस्तस्यार्थोऽवगच्छामश्च। अहं निश्चयेन वक्तुं शक्नोम्ययदेष श्लोकोऽस्मासु सर्वैरपि श्रुतः। श्लोक इति

ॐ असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय।
मृत्योर्मामृतं गमय।
ॐ शान्तिः शान्तिः शान्तिः।।

एष श्लोकः पवमानमन्त्रमिति नाम्नोच्यते। पवमानमन्त्रमर्थो कः? यद्मन्त्रं मनः पवनङ्करोति तत् पवमानमन्त्रः। अयं श्लोको बृहदारण्यकोपनिषदि पठितुं शक्यते। अस्य प्रसिद्धश्लोकस्यार्थो कः? बहवो जना श्लोकस्य शब्दानाञ्जानन्ति परन्त्वर्थं न जानन्ति। इदानीँव्वयमस्य श्लोकस्यार्थो पठामोऽवगच्छामश्च। श्लोकस्यार्थमवगमने सन्धिविच्छेदः करणमावश्यकम्।

प्रथमवाक्यं पश्यामः - असतो मा सद्गमय।
सन्धिविच्छेदितवाक्यमिति - असतः मा सत् गमय। असतः इत्युक्तेऽसत्यम्, सत् तु सत्यमेव, मा इति निषेधार्थकशब्दः, गमय - गम् धातोः प्रेर्णार्थकरूपं। वयं पूर्वमेव जानीमः - पठति, पाठयति। तादृश एवायं रूपं। गच्छति / गमयति, गच्छ / गमय। अतोऽस्य वाक्यस्यैष अर्थोऽस्ति - मामसत्यं त्यक्त्वा सत्यं दिशि नयतु।

द्वितीयवाक्यं निरीक्षामहे - तमसो मा ज्योतिर्गमय।
सन्धिविच्छेदितवाक्यम् - तमसः मा ज्योतिः गमय - तमसः इत्युक्तेऽन्धकारः। तमसोऽन्धकारस्य पर्यायवाची शब्दः, ज्योतिः किं? वयं निश्चयेन जानीमः। ज्योतिरित्युक्ते प्रकाशः। अतोऽर्थः कः? मामन्धकारात् प्रकाश्स्य दिशि नयतु।

तृतीयवाक्यं पश्यामः - मृत्योर्मामृतं गमय।
सन्धिविच्छेदितवाक्यम् - मृत्योः मा अमृतम् गमय - वयञ्जानीमो मृत्युः किमर्थं, अमृतङ्किं - अमृतङ्किञ्चिद्द्रव्यम्। एतन्द्रव्यम्पीत्वामरजीवनम्भवितुं शक्यते। अतोऽस्य वाक्यस्यार्थः कः? मां मृत्युर्न परन्त्वमृतमथवामरजीवनस्य दिशि नयतु।

सन्क्षिप्तरूपे एष श्लोकोऽमरजीवनँय्याचते।

सोमवार, 14 अगस्त 2017

जीवने कीदृशानि लक्ष्यानि स्युः

सर्वेषांञ्जीवनेषु बहूनि लक्ष्यानि वर्तन्ते। कश्चन कार्यालये पदोन्नतिं प्राप्तुमिच्छति, काचन धनमर्जयितुमिच्छति, कश्चन प्रसाद इव गृहस्य निर्माणङ्कर्तुमिच्छति, काचन बहुमूल्यङ्कारयानञ्चिक्रीषति, कश्चन काचित्सपर्धायां प्रथमस्थानं प्राप्तुमिच्छति। मनुष्यस्य वाञ्छा अगणनीयाः। यदा यदा काचिदिच्छा पूरिता, झटिति प्राप्तवस्तुनो महत्वपूर्णता न्यूनीजाता। क्षणमात्रयागामीच्छा पूरयितुङ्किंक्रियेदिति चिन्तने मनुष्यो व्यस्तो भवति। एतादृशञ्चिन्तनञ्जीवने हर्षं सन्तोषञ्च न्यूनीकरोति। अतो जीवने कीदृशानि लक्ष्यानि पालनीयानीति चिन्तनं महत्वपूर्णम्। सर्वाणि लक्ष्यानि त्रिविधानि। प्रथमायाम् - मनुष्यस्य सम्पूर्णं नियन्त्रणमस्ति, द्वितीयायाम् - किञ्चिन्नियन्त्रणमस्ति, तृतीयायाम् - किञ्चिदपि नियन्त्रणं नास्ति। मुख्यतो जीवने प्रथमा विधा लक्ष्यान्येव पालनीयानि यतः सम्पूर्णनियन्त्रणङ्कारणेन ताँल्लक्ष्यान् साधयितुं शक्यन्ते। अतो जीवने हर्षः सन्तुष्टिश्च वर्धिष्येते। यानि लक्ष्यानि मनुष्यस्य नियन्त्रणे न सन्ति तानि न पालनीयानि यतो यदा तानि न प्राप्तानि तर्हि मनसि पीडोद्वभवेत्। अतो जीवने कानि लक्ष्यानि पाल्येरनिति चिन्तनीयम्।

रविवार, 13 अगस्त 2017

सन्तुष्टजीवनस्य कृते

चिरञ्जीवनङ्कथँल्लभ्येतास्मिन् विषये पूर्वमहमलिखम्। परन्तु चिरञ्जीवनमेव न पर्याप्तम्। सन्तुष्टजीवनमप्यावश्यकम्। यदि जीवने काचन पीडा भवेदेतादृशञ्चिरञ्जीवनस्य कः प्रयोजनम्? अतः सन्तुष्टजीवनस्य कृते किङ्कर्तव्यमिति ज्ञातुमतीवाश्यकमपि। जीवने यानि वस्तूनि प्रियजना सुखसुविधाश्च सन्ति तेभ्यः कृतज्ञतानुभव। यद्येतानि वस्तूनि जनाश्च जीवने नाभविष्यन्तर्हि जीवनङ्कथमभविष्यदिति चिन्तनीयम्। एतैर्विना जीवनङ्कठिनमभविष्यत्। एतच्चिन्तयित्वाभासङ्करिष्यस्यदयञ्जीवनं नैतादृशं दुश्चरित्रं। एतच्चिन्तयित्वा जीवने सन्तुष्टिर्वर्धिष्यते।

गुरुवार, 10 अगस्त 2017

नूतनभाषाया ज्ञानस्य कृते के के यत्ना कर्तव्याः?

केषुचित् गतदिनेष्वहं संस्कृतकक्षायां नीरवमुपविशामि, श्रोतारूपेण सर्वाणि शृणोमि च। कक्षायां पञ्चविंशतिर्जना संस्कृतपिपठिषोद्वहन्तीति ज्ञात्वा मम मनो मोमुद्यते। परन्तु केवलं पिपठिषयैव भाषा न जास्यते। पिपठिषा सह बहवो यत्ना अप्यावशयकाः। छात्रा पिपठिषा तूद्वहन्ति परन्तु प्रयत्ना करणार्थं समयो न व्ययन्ति। लघुमात्रायां समादिष्टङ्गृहकार्यमपि न कुर्वन्ति। त्रीणि वाक्यान्यपि न लिखन्ति। ये लिखन्ति ते नियमा निर्देशाश्च न पालयन्ति। कक्षाया पञ्चनिमेषपूर्वञ्झटिति कानिचन वाक्यानि प्रेषयन्ति। अमूनि वाक्यानि प्रमादग्रस्तानि। कथं तर्हि ते भाषा जानीयुः? नूतनभाषाया ज्ञानार्थङ्कोऽप्यल्पमार्गो नास्ति। दूरवाण्या संभाषणङ्कर्तव्यम्। बहूनि पुस्तकानि पठितव्यानि। बहवो घण्टा यापनीयानि, कठोरपरिश्रमश्च कर्तव्यः। एकैकावसरे संस्कृतँव्वक्तव्यम्। कोऽप्यन्यो मार्गो नास्तीति तैर्ज्ञातव्यम्।

रविवार, 6 अगस्त 2017

सम्भाषणम्

प्रायो विंशतिदिनेभ्यो मयास्मिञ्जालपुटे कोऽपि लेखो नालिख्यम् । यतो मम पार्श्वे सम्भाषणस्य कृते कोऽपि नासीदतोऽहमेष जालपुटमस्थापयम्। अस्य जालपुटस्य माध्यमेनाहं संस्कृते वक्तुं शक्नोमि। अपि च वाङ्मयमपि साधयामि। परन्तु गतदिनेष्वहङ्काँश्चन संस्कृतभाषमाणा जनानमिलम्। तैः सह कश्चन संस्कृतवदनस्याभ्यासः कुर्वन्नस्मि। अतो जालपुटौ लेखितुमवसरो न लब्धः। अहं पञ्चभ्यो वर्षेभ्यः संस्कृतस्यध्ययनङ्कुर्वन्नस्मि परन्तु कदापि वदनस्यावसरो न प्राप्तः। गतदिनेषु वदनस्यावसरः प्राप्तः। अन्यैः सह संस्कृतमवदनं विलक्षितः प्रतिभाति। अद्य पर्यन्तमहं संस्कृतं स्वमस्तिष्कैवाब्रुवं परन्त्विदानीं मुखेन शब्दा उच्चारयामि कर्णाभ्यां ताञ्छब्दाञ्छ्रणोमि च। विलक्षितो भाति। परन्तु संस्कृतं मुखेनोदित्वा कर्णाभ्यां श्रुत्वा च मम मनो मोमुद्यते। यः प्रवाह मम चतुर्वर्षीयपुत्रस्याङ्ग्लभाषायामस्ति मम संस्कृतवदने नास्ति यद्यप्यहं पञ्चभ्यो वर्षेभ्यः संस्कृतं पठनयुद्युक्तः। निश्चयेनेदानीमभ्यासेनान्यैः सहोक्त्वा च मम संस्कृतवदने प्रवाह वर्धिष्यते।

रविवार, 16 जुलाई 2017

निर्मनस्केन न जीव

अस्मिञ्जगत्यधिकतमा जना अज्ञानावस्थायां तेषाञ्जीवनानि यापयन्ति। ते न जानन्त्यत् तयुपभोक्तार इव जीवन्तः सन्ति। तेऽन्तर्जाले दूरदर्शने च बहवः होरा व्यर्थंकुर्वन्ति। एते माध्यमयुपयुक्ताः प्रयोजना आवश्यँव्वर्तन्ते परन्तु तेऽनुपयुक्तासु वार्तास्वेव समयं व्ययङ्कुर्वन्ति। विज्ञापनैः प्रभावित्वा ते बहूनि वस्तूनि क्रीणन्ति। यद्यपि तानि वस्तूनि नानिवार्यानि तथापि ते तेषु वस्तुषु धनं व्ययन्ति। भोजनकालेऽपि तेऽसञ्चिन्त्य खाद्यपदार्थं भुञ्जन्ति। खाद्यमानानि पक्वानानि तेषामारोग्यँव्वर्धयेयुरुत न ते न चिन्तयन्ति। एतानि लक्षणानि तानुपभोक्तारः कारयन्ति। ते निर्मातारः भवन्तु। समाजाय कश्चन योगदानङ्करणीयम्।उपयोगीसूचना ज्ञानं वोपेता लेखा लिखत। एताल्लेखान् पठितुमन्यान् कल्याणं भवेत्। न्यूनतँव्वस्तूनि क्रीत्वा मानसिकतुमुलं न्यूनङ्करणीयम्। निर्मनस्केन न भुञ्जत। किमिदं भोजनं मम शरीराय पोषणं दास्यतीति चिन्तनं पश्चादेव मुखे भोजनं स्थापयतु। निर्मनस्केन जीवनं मा यापय। कथञ्जीवनञ्जीव्येतिति चिन्तयन्तदानुसारञ्जीव।

शुक्रवार, 14 जुलाई 2017

कार्यालये स्थितिः

पूर्वमहमकथयँय्यदीश्वरकृपया मम कार्यालयस्य कार्ये कोऽप्यद्वेगो नास्ति। इदं सत्यं मिथ्यापि च। कार्याय मम बहवः होरा यापयितुं नानिवार्यः। अनेन कारणेनोद्वेगो नास्ति परन्तु यङ्कार्यं मया क्रियमाणं तमन्यतरदलेष्ववलम्बितम्। अमी दला आवाम् (अहं मम सहकर्ता च) कापि सहायता न प्रददति। यङ्कार्यमीषां दलानां सहायता क्षणमात्रे कुर्यात् तङ्करणे मया बहवो दिवसा व्यययानि। अस्मात्कारणात् कार्यालयस्य कार्यात् तृप्तिर्न प्राप्नोमि। कदाचिदहं बहवः प्रयत्नाः कृत्वान्यानां दलानां सहायता विना तत्कार्यङ्कर्तुं शक्नोति परन्तु किमेतादृशा विधिरुचिता? अस्यां विधेः कार्यङ्करणे कोऽप्यानन्दो नास्ति। अन्ये दला अप्यमोद्यगाय कार्याणि कुर्वन्ति तत्किमर्थं ते सहायता न ददति? किमर्थमहं भित्तौ मम शिरस्तुदेयम्? अहं भीषणप्रयत्ना न परिहरामि परं ते प्रयत्ना अर्थपूर्णा भवेयुरिति मयापेक्षितम्। यदि तेऽर्थहीनास्तर्ह्यहं मामकेन समयेन किञ्चिदन्यङ्कार्यङ्करिष्यामि।

गुरुवार, 13 जुलाई 2017

भविष्ये किमस्ति?

काले काले सर्वेऽपि तेषां भविष्यविषये चिन्तयन्ते। यद्यपि विद्वांसः कथयन्ति यद्वर्तमानकालैव जीव्येद्भविष्यकालस्य विषये न चिन्तनीयं तथाप्यहङ्काले काले भविष्यकालविषये चिन्तयामि। परन्तु नितरां न ह्यं विदुषानां मत्त्या सहमतोऽस्मि। यतर्यानि कार्याण्यहं प्रतिदिनङ्करोमि तानि मम वर्तमानभविष्यकालयोरभिस्पृशन्ति। अत एतादृशाेषु कार्येषु मया विशेषवधानं दातव्यम्। तथा मदीये भविष्यकाले किमस्ति? इतःपरं दशवर्षेभ्यः पश्चाद्मम जीवनङ्कथं भविता? अहं प्रतिदिनं व्याायामं ध्यानञ्च करोमि। किं मम शारीरिकमान्सिकावस्थे सुष्ठु भवितारावुत ते क्षीणे भवितारौ हीदानीमहं रात्रावष्टभ्यः होराभ्यः स्वपितुं न शक्नोमि। किमहँव्वाद्ययन्त्रवादने कुशलं भवितास्मि? किमहं तन्त्रांशज्ञ एव भवितास्मि? किमहमस्मिन् गृहैव वसितास्मि? किमहं संस्कृतभाषायां प्रवाहवाची भवितास्मि? किं मित्रैः सह संस्कृते समभाषणङ्कर्तास्मि? दशवर्षाणि प्राग्ये निर्णया मयाक्रियन् किं ते साधुसम्यग्च सिद्धयिष्यन्ति? कदाचिदेते निर्णया सम्यग्न सिद्धयिष्यन्ति परन्त्वह्यँयथाभिरुचिर्जीवनंजीवमिति तृप्तिर्भवितेत्याशासे।

बुधवार, 5 जुलाई 2017

गतरात्रावहमष्टभ्यो होराभ्योऽशयि

गतरात्रावहमष्टभ्यो होराभ्योऽशयि। अस्मात्कारणादद्याहमालस्यं नानुभवामि। तत्स्थाने मय्युत्साहशक्त्यवर्तिष्ट। प्रतिरात्रावहमष्टभ्यो होराभ्यः शयिषीय!

मंगलवार, 4 जुलाई 2017

किमर्थं विश्रामो न लभ्यते

दिष्ट्येश्वरकृपया मम जीवनं सफलं सुखमयञ्च। मामके जीवने कोऽपि भीकरसमस्या नास्ति। कार्यालये कार्यमप्युद्विग्नग्रस्तं नास्ति। गृहे मम पुत्रो भार्या च कुशलञ्जीवनं सञ्चरतः। मदीया या अभिरूचयः सन्ति ता अहङ्कयाचित् समस्यया विना निर्वाहः करोमि। वाद्ययन्तरँव्वादयामि, बहुशः पुस्तकानि पठामि, ध्यानङ्करोमि, व्यायामङ्करोमि, सङ्गणके दूरदर्शने च बहवो होरा न यापयामि। दिने विश्रामाय समयोऽपि वर्तते। परन्तु मया विश्रामं न प्राप्तम्। रात्रौ सार्धत्रिवादने बोधयामि। किमर्थमष्टभ्यः होराभ्यो निद्रान्न लभ्यते मया? अद्यत्वेऽन्तर्जालमाध्यमे किमपि पठितुं शक्यते। कदाचिदहं सदा समयस्य सदुुपयोगङ्कर्तुमिच्छामि नूतना कलाधिजिगमिषामि च । कदाचिदस्मात् कारणान्मम मनस्सदोत्साहितः। मनस्सदैव किञ्चिच्चिन्तने व्यस्तः। अस्मै निवारणायाहं प्रतिदिनं ध्यानङ्करोमि परन्तु ध्यानङ्क्रियायामेवाहमतीवुत्सुको जातः। नानाप्रकारा विचाराश्चिन्तयामि। ते विचारा महत्वपूर्णापि ना सन्ति। तेऽनुपयोगाः। तदकिमर्थं मनः शान्तिन्न लभ्यते। निद्राभावादहं मम जीवनमल्पङ्कुर्वन्नस्मीति मम मनसि भयो जातः। पूर्वस्मिँल्लेखेऽहं सुखमयदीर्घजीवनाय विधिरलिखमिति सोल्लुण्ठम्।

शुक्रवार, 30 जून 2017

आश्चर्यजनका प्रसन्नताजनका च वार्ता

अस्मिन् सप्ताहे मद्भार्यया मां सूचितँय्यदस्माकमेकतमः प्रतिवेशी संस्कृतवक्तास्ति! अहो, को दैवयोगः! मम भार्या प्रतिदिनं साँयकाले मम पुत्रेण सह तस्य विहारक्रीडनहेतुभ्यां बहिर्गच्छति। यदा पुत्रः क्रीडमानस्तस्मिन् काले सान्ये प्रतिवेशीभिः सह सम्भाषते। एकेन प्रतिवेशिना सह भाषमाने साजानाद्यद्गृहस्य स्वामी संस्कृतशिबिरे पाठनाय द्वौ दिवसावनन्तरं डैलॉसनगरं गमिष्यति। सेयँव्वार्ता मामसूचयत्। अहं स प्रतिवेशिना सह दूरवाण्याँव्वार्तालापं कृत्वाजानाँय्यत् स संस्कृतभारतीसंस्थायै कार्यकर्तास्ति तस्यै संस्थायै शिष्यान् संस्कृतं पाठयति च। इदं ज्ञात्वाहमतिप्रसन्नचिदभवम्। आवां संस्कृतभाषायां दूरवाण्यां सन्देशविनिमयोऽकरवाव। यदहं संस्कृतवाचकोऽस्मीति ज्ञात्वा सोऽप्यतिप्रसन्नचिदभवम्। इतः परमावां संस्कृतभाषायां सम्भाषणङ्करिष्याव इत्यावाभ्यां संकल्पितम्। पुरातनगृहं त्यक्त्वा नूतनगृहं निवसनस्य मम निर्णयोऽत्युतममिति भाति। पश्य! अहं न मूर्खः! मादृशा अन्येऽपि सन्ति। कदाचित्तेऽपि मूर्खाः - कदाचित्। माङ्कापि न चिन्ता। अहं तूत्साहितः।

रविवार, 25 जून 2017

चिरञ्जीवनङ्कथँल्लभेथाः?

१. अल्पमात्रायां भोजनङ्खाद - प्रायशः शाकाहारी।
२. प्रतिदिनं न्यूनातिन्यूनं विंशतिनिमेषेभ्यः समाधिर्धेहि।
३. प्रतिदिनं न्यूनातिन्यूनं त्रिंशन्निमेषेभ्यो व्यायामङ्कुरु।
४. उद्विग्नतां न्यूनीकुरु।
५. साध्वलञ्च शेष्व।
६. वर्तमानकालस्यानन्दमनुभव न तु भविष्यत्काले प्राप्यमाणानि वस्तूनि प्रति धाव।
७. धनस्यापेक्षया सन्तोषं महत्त्वं देहि।
८. सामाजिकश्रेणेरपेक्षया सन्तोषं महत्त्वं देहि।
९. मित्रबन्धुजनैः सह सम्मेलनङ्कुरु।
१०. याभिः क्रियाभिरानन्दं प्राप्तुं शक्यते तासु रमस्व।
१२. मदिराधूम्रपानादिनी व्यसनानि त्यज।
१३. अन्यान् प्रत्यनुकम्पा दर्शय।

रविवार, 18 जून 2017

वाद्ययन्त्रेणाहं विस्मितो जातः

अहँव्वाद्ययन्त्रंविषये पुनर्लिखानि ह्यं द्वौ मासौ पर्यन्तं तस्याभ्यासः कुर्वाणोऽस्मि। द्वौ मासावभ्यासः कृत्वा पश्चादहमाश्चर्यचकितोऽस्मि। वाद्ययन्त्रँव्वादनाय बहवो यत्ना अनिवार्या इत्यहमादित एवाजानाम्परन्त्वस्याङ्कलायामेतावतः पद्धतयो भवन्तीति मया नानुमानितः। वादनकलायाः सङ्कीर्णतां दृष्टवाहं विस्मितोऽस्मि। तत्कालपर्यन्तमहं प्रतिदिनमभ्यासङ्करोम्यानन्दानुभावयामि च। इतोऽपि किञ्चन सङ्गीतँव्वादनाय बहवो मासा अभ्यास आवश्यकतास्ति । यद्यप्यहञ्जानामि यत् सङ्गीतकला मानवा सहस्तरेषु वर्षेष्वेव निर्मितं तथापि कथङ्केवलं षड्तन्त्रीभ्यो नानाप्रकाराणि सङ्गीतानि वादयतुं शक्यन्तयित्यविश्वसनीयम्।

रविवार, 11 जून 2017

इतः परँल्लघुलेखाः

अतीते मया १५०-३०० शब्दयुक्ता लेखा अलिख्यन्त। ह्यहं संस्कृते प्रवाहवाची नास्मीति कारणेन मया लेखा लेखने बहवो यत्नाः करवानि दीर्घः समयः च व्यतीतामि। एतादृशा लेखा लेखितुं २-३ होरा यापयामि। अपि च लेखा लेखितुं पश्चादहमतीव श्रान्तमनुभवामि। सामान्यतरहमेते लेखाः सप्ताहान्ते लिखामि। लेखनं पश्चात् मम मस्तिष्कः कोऽपि कार्यङ्कर्तुं न शक्नोति - एतादृशं भीकरं श्रान्तमनुभवामि। अहमिदँल्लेखनक्रियाया अत्यानन्दं प्राप्नोति परन्त्वहं सप्ताहान्ते विश्राममपि चिकीर्षामि। अत इतः परँल्लघुलेखा एव लिखिष्यामि।

रविवार, 4 जून 2017

कृतज्ञता दर्शय

जीवने सर्वेऽपि प्रसन्नचिद्बुभूषन्ति। तदर्थञ्जना बहवः प्रयत्नाः कुर्वते। ते धनमर्जितुँव्वाणिजसोपानमारोढुञ्चेष्टाः कुर्वते। यदा ते कश्चिदुपलब्धिं प्राप्नुवन्ति तदा तेऽग्रिमोपलब्धेर्दिशि पश्यन्ति। ते प्राप्तोपलब्धीनां सार्थकतां न्यूनीकुर्वन्ति समायोजन्ति च। अस्मात्कारणात्तैः प्रसन्नता नानुभूयते। अतो यानि वस्तुन्युपलब्धयश्च विद्यमानानि तानि सार्थकतया पर्तव्यानि, तैः प्रसन्नता च लम्भनीया। यानि वस्तूनि विद्यमानानि तेभ्यः कृतज्ञता दर्शय तर्हि प्रसन्नतामनुभवितासे।

बुधवार, 24 मई 2017

आङ्ग्लभाषा संस्कृतभाषा - कतरा कठिना?

संस्कृतव्याकरणे निपुणता दुर्लभेति कथनं प्रसिद्धम्। यदा यदा कश्चन विद्वान् संस्कृतपठनं निर्दिशति तदा तदा जना अयङ्कथनं निगद्य संस्कृतपठने कोऽपि प्रयत्नो न कुर्वन्ति । अयङ्कथनं प्रसिद्धं परन्तु किमयं सत्यमुत भ्रमः? काठिन्यं सदान्यवस्तुनोद्देशाद्भवत्यत इदङ्कथयन्तो जना संस्कृतव्याकरणङ्केनोद्देशात् तोलयन्ति? यदि तानिदं पृच्छेस्ते प्रायेण किमप्युत्तरं दत्तुं न शक्नुवन्ति। तेऽयँव्विषये कदापि नाचिन्तयन्। परिश्रमं परिहाराय तेऽस्य कथनस्य प्रयोजनङ्कुर्वन्ति। तां संस्कृतव्याकरणङ्कठिनं प्रतीयतयिदमहन्न विवादे। परन्तु किमर्थं ते काठिन्यमनुभवन्तीत्यहँव्विवादे। कस्याञ्चन नूतनभाषायां प्रवाहवाची भवितुं महद्यत्ना अनिवार्याः। ते संस्कृतं तेषां मात्रभाषया तोलयन्ति। मात्रभाषा शिश्वास्थाया उद्यते। अतो मात्रभाषा सरला प्रतीयते। स्पष्टँय्यत्तान् संस्कृतभाषा कठिना दृश्यते। यदि ते काप्यन्या नूतना भाषाध्येतुं प्रयत्नाः कुर्युस्तदा तैर्भास्येद्यत् सा भाषापि कठिना। उदाहरणाय संस्कृतव्याकरणस्य सूत्राण्याङ्ग्लभाषाया सूत्रैस्तोलयामः। संस्कृतव्याकरणसूत्राणि कठिनानीति तु लक्षितम्। इदानीमाङ्ग्लभाषाया सूत्राणि पश्यामः। आङ्ग्लभाषायां बहुवचनङ्कथँल्लभ्यते? तद्धेतोः किं सूत्रम्? ‘S’ इति प्रत्ययः संज्ञया योजयित्वा बहुवचनँल्लभ्येत। उदाहरणतः tap → taps, boy → boys इत्यादयः। परन्त्विदं सूत्रं न नित्यम्। बहुवचनँल्लभनार्थाय बहूनि सूत्राण्यावश्यकानि।

tap,boy → taps, boys
deer, sheep → deer, sheep
child → children
ox → oxen
datum, medium → data, media
index, vertex → indices, vertices
cactus → cacti
formula, antenna → formulae, antennae
biology, pathology → biologies, pathologies
man, woman → men, women

उपरिलिखितान्युदाहरणानि दर्शयन्ति यदाङ्ग्लभाषायामपि बहूनि सूत्राणि सन्ति। इमानि सूत्राणि मया झटिति समृत्वालिखम्। अहं न वैयाकरणजनः। सम्भवतर्बहुवचनमधिकृत्याधिकानि सूत्राण्यपि सन्ति। यदि साधारणजनान् (न वैयाकरणजनान्) पृच्छ्यतयाङ्ग्लभाषायाङ्कथं बहुवचनं रचयेत् तयुत्तरं दद्युर्यत् ‘s’ प्रत्ययः प्रयोक्तव्यः। यद्यपि तयुपरिलिखितानि सूत्राणि जानन्ति तथापि तानि न कथयेयुर्हि बहूनि सूत्राणि सन्तीति ते न भासन्ते। एवमेव संस्कृतेऽपि बहूनि सूत्राणि सन्ति। तत्कथं संस्कृतैव कठिनोच्यते? अस्यैकोऽन्यः कारणोऽपि। आङ्ग्लभाषा वदनं प्रयत्माना जना अन्यानाञ्जनानामाङ्ग्लभाषां श्रुत्वा तैः सहाङ्ग्लभाषोदित्वा च निपुणता साधयन्ति। संस्कृतभाषा वदन्तो जना विरलाः। एनेन कारणेन सा कठिना प्रतीता न तु तस्या व्याकरणस्य काठिन्यङ्कारणात्। ये जना आङ्ग्लभाषा युवावस्थायामध्ययनमारम्भन्ति ते भाषायां प्रवाहवाची भवितुं ५-१० वर्षाणाँव्वदनं पठनञ्चानिवार्यौ। यदि तादृशा आङ्ग्लभाषाछात्राः पृच्छ्यते यदाङ्ग्लभाषा सरला किम् - आङ्ग्लभाषातिकठिनेति ते कथयिष्यन्ति। समं संस्कृते निपुणता साधयितुमपि बहूनाँव्वर्षाणां परिश्रममनिवार्यम्। एभ्यः कारणेभ्यः संस्कृतव्याकरणङ्कठिनं प्रतीतं न तु तस्या व्याकरणङ्कारणात्।

शनिवार, 20 मई 2017

सन्धिर्न प्रयुज्यते

प्रतिमासमहं सभ्भाषणसन्देशसञ्चिकामुत्साहेन पठामि। काले काले सञ्चिकायां भाषाया व्याकरणस्य साधुतामधिकृत्य लेखा दृश्यन्ते। एप्रलिमासीयेऽङ्के 'शब्दसाधुताविषये अवधानम्' लेखे सम्पादकस्य व्याकरणविषयेऽवधानं प्रार्थनाञ्चापठ्यताम्। 'भाषापाकः' इति लेखेनापि सर्वदा व्याकरणज्ञानमधिगम्यते। परन्तु सञ्चिकायां नितरां सन्धिप्रमादः किमर्थं दृश्यत इति मया नावगम्यते। सन्धिर्व्याकरणस्यैव भागः। तत्किमर्थं सञ्चिकायां सन्धेरुचितप्रयोगं न क्रियते? काश्चन सन्धयो विकल्पेन विहिताः। ता नोपयुज्यन्तेऽस्मिन् कापि न हानिः। परन्तु काश्चन सन्धयो नित्यं विहिताः। ताः प्रयोक्तव्याः। सन्धियुक्ता लेखा पाठकान् कष्टाः प्रस्तूयन्त इति श्रूयते। परन्तु सन्धिर्व्याकरणस्याल्पभागः। ये जनाः संस्कृतव्याकरणमध्येतुं प्रयतन्ते ते सन्धिमपि पठितुं शक्नुयुर्ननु?

शनिवार, 13 मई 2017

अभ्यासेन निपुणः क्रियते

अभ्यासेन निपुणः क्रियतयिति लोकोक्तिः प्रसिद्धा। अस्मिन्विचारे कापि न शङ्का। अद्यत्वेऽन्तर्जालमाध्यमेन किमप्यध्येतुं शक्तम्। पुरा याभ्यः कलाभ्योऽध्येतुञ्जना विशेषविद्यालयङ्गच्छन्ति स्म, धनव्ययङ्कुर्वन्ति स्माद्यत्वे ताभ्यः कलाभ्योऽन्तर्जालमाध्यमेन गृहस्य सुविधायां निश्शुल्कं पठितुं शक्नुवन्ति। द्वितीया भाषा, वाद्ययन्त्रवादनम्, सङ्गणकतन्त्रांशलेखनमिति कौशला कानिचनोदाहरणानि। नूतनाः कौशला मतिँव्वर्धयन्ति। वृद्धावस्थायां मान्सिकसन्तुलनमेवाभिरक्षन्ति। अतोऽस्माकमुत्तरदायित्वँय्यन्नूतनाः कौशला अर्जाम। दूरदर्शनं दृष्ट्वा कालो व्यर्थो न करणीयः। तत्स्थाने काचन नूतना रुचिः पालनीया, अन्तर्जालमाध्यमेन च तस्यां रुच्यां निपुणता प्राप्नुयाम। अयं सुष्ठुविचारः परन्तु मम मनस्येकः प्रश्नो जायते। किमेकस्याः कलाया अभ्यासोऽन्यतराङ्कलामभिस्पृशति? अस्ति चेल्लाभायोत हानये? हि नूतनकलाध्ययने मतिँव्वर्धयत्यतोऽन्यासु कलास्वपि लाभं दृश्यतयिति स्पष्टः। यद्यपि मानवमस्तिष्को सुसमर्थस्तथापि तस्य भौतिकीसीमाप्यस्ति। चेदेका कला वर्धनेनान्यासां कलानामपचयं सम्भवेत्। यदैकायाः कलाया अभ्यासः क्रियते तदा मस्तिष्केन शारीरिकपरिवर्तनं दृश्यते। मस्तिष्कस्य भिन्ना भागा भिन्नाः प्रयोजनार्थेभ्यो वर्तन्ते। मस्तिष्कस्य को भागः प्रयुज्यते क्रियमाणायाङ्क्रियायामवलम्बते। यो भागः पौनःपुन्येन प्रयुज्यते तस्याकारो वर्धते। उदाहरणतस्तन्तुवाद्ययन्त्रवादनेऽङ्गुलीनामतीवप्रयोगोऽनिवार्यः । अतो दीर्घकालाभ्यासेन मस्तिष्कस्य यो भागोऽङ्गुलिनियन्त्रणे निरतस्तद्भागस्यकारो वर्धते। परन्तु मानवमस्तिष्कस्याकारस्स्थिरः। सम्पूर्णमस्तिष्कस्याकारो न वर्धते। अतो यः कश्चनान्यो भागोऽभ्यासे न प्रयुज्यते तस्याकारो निश्चयेन लघुतरो भवतु। एतदर्थंयद्यदैकस्यामङ्क्रियायां निपुणता वर्धमाना भवति तदान्यस्याङ्क्रियायां निपुणतावश्यङ्क्षयमाना भवतु ननु? अहन्न वैज्ञानिकः। अतः किमिदं सत्यमुत नाहङ्कथयितुन्न शक्नोमि। परन्त्वेष विचारश्चिन्तयितुमर्हेत्। अद्यत्वेऽहँव्वाद्ययन्त्रवादने प्रयासरतः। प्रतिदिनमभ्यासङ्करोमि। किं मामक्यान्यस्याः कलायाः कौशलङ्क्षयमाना भवेतदिति मया न ज्ञायते?

शनिवार, 29 अप्रैल 2017

वाद्ययन्त्रम्

गतसप्ताहे मया रुद्रीवाद्ययन्त्रमक्रीयत्। सहसा यन्त्रवादनयियं रुचिः कुतरागता? बहुशर्जनैर्यन्त्रवादनं बालवस्थायामेव पठ्यते। यन्त्रवादने निपुणं भवितुं शता उत सहस्रा होरा अभ्यासे यापनमावश्यकतास्ति। तत्किमर्थमहँय्युवावस्थायामिदञ्जिज्ञासामि। अस्मायेकोत्तरानि कारणानि सन्ति। प्रथमतरहं बालवस्थाया एव यन्त्रवादनञ्चिकीर्षामि। मम मातापितरौ यन्त्रवादने कदापि प्रोत्साहन् नादत्ताम्। बालवस्थाया दिनेषु विद्यालयस्य पुस्तकानां पठनमेव महत्त्वपूर्णनमप्रतिक्ष्यत्। पुस्तकानामध्ययनम् ऋते किमप्यध्ययनं व्यर्थकि्रया चिन्तिता। इदानीमहँय्युवावस्थायामस्मि। मातापित्रोराज्ञा नावश्यका। द्वयन्ये कारणेऽपि कथयामि। अहं भाग्यवान्। अहं सदा न व्यस्तः। दिने काश्चन होरा निर्व्यस्ताः। कुतरहं मम सुताय भार्यायै च भोजनँल्लप्स्ययिति मां न चिन्ता। बहवो जनास्तेषाङ्कुटुम्बाय भोजनोत्पीठिकायां भोजनं स्थापयतुं महता यत्नाः कुर्वन्तु। भगवत्कृपयैषा स्थितिर्मम जीवने न विद्यते। ईश्वरकृपयालं धनमुपलब्धम्। तत्किमर्थं ममाभिरुचिं नानुगच्छेयम्? अपि च शोधकार्याणि दर्शयन्ति यत् ये वाद्ययन्तरँव्वादितुं शक्नुवन्ति तेषां मस्तिकष्केषूद्भूतं शारीरिकपरिवर्तनं दृष्टम् । शोधकार्याण्यमपि दर्शयन्ति यत् तादृशा जनाः सर्जनात्मका एव भवन्ति। ये स्वेषां मस्तिष्कानां प्रयोगङ्कुर्वन्ति ते वृधावस्थायां न स्थाविराः। एतैः कारणैरहँव्वाद्ययन्त्रव्ँवादनञ्चिकीर्षामि। वादनमभ्यासे मया बहवो होरा यापनीयाः। किं मयीदृशी प्रसक्तिरस्तीदं द्रक्ष्यते। अहं रुद्रीयन्त्रँव्वाद्यासमिति ममाशा।

शनिवार, 22 अप्रैल 2017

वाणिजसोपानमारोह्याः! तिष्ठ! स्यान्न

समाजस्स्वस्य सदस्यान् सफला दिदृक्षति। अयं सुष्ठु विचारः। अस्मिन् विचारे कापि न हानिः। परन्तु सफलतायाः परिभाषा किमिमं प्रश्नञचिन्तितुमर्हति । समाजेन धनिका सफलाः प्रतिक्ष्यते। बहूनामयं सफलतायाः परिभाषा। प्रथमेऽवलोकयियं परिभाषा सुष्ठु प्रतिभाति। सुखीजीवनं धनेन शक्यते। प्रासाद इव विशालङ्गृहम्। कारयानेन जनैस्सङ्कीर्णानि बसयानानि परिह्रियन्ते। धनेन अपूपानि पिष्टानीत्यादिनि पक्वानानि वितीर्यन्ते। एतानि सर्वाणि वस्तूनि जीवनं सरलङ्कारयन्ति । परन्तु किमेतानि वस्तूनि जीवनं सुखमयङ्कारयन्ति? किमेतानि वस्तूनि जीवने प्रसन्नतां साधयन्ति? यदि त्वं धनिकोऽसि परन्त्वसन्तुष्ट उद्वेगी च भवसि तदधिकधनस्य किं प्रयोजनम? किमर्थमहमसन्तुष्ट उद्वेगी च भविष्यामीति त्वं पृच्छासि। अस्मिञ्जगति धनमर्जितुं न सरलः। महतानि कष्टान्यनुभूत्वा पश्चादपि धनिको भवितुं शक्नोति। उद्योगे वाणिजसोपनमरोह्यसीत्यपेक्ष्यते। तदर्थेऽधिकधनमर्जितुञ्च त्वमुद्योगे अधिका होरा यापयसि। कुटुम्बेन सह यापयमानः कालः क्षीणो जातः। वाणिजसोपनमारोहणमानेन सह यदुत्तरदायित्वमागच्छति तदेकाकी न। तेनोत्तरदायित्वेन सहोद्वेगोऽप्यागच्छति। अथ त्वमधिकधनँल्लभमानः परन्त्वुद्वेगोऽपि लभमानः। किमीदृशं धनमर्जितुमर्हति? सर्वे जना जीवने प्रसन्ना बुभूषन्ति। वस्तुत इदञ्जीवनस्य लक्ष्यं न तु धनमर्जनम्। अतस्समाजस्य सफलताया मानं तस्य सदस्यानां प्रसन्नता भवतु न तु तेषां धनसम्पत्ती। धनं प्रसन्नताया भागो न तु तस्याः परिभाषा। धनं तव जीवनं सरलः कर्तुं शक्नोत्यस्मिन् कोऽपि न संशय। परन्तु धनं साधनञ्जीवनस्य लक्ष्यं न करणीयम्। प्रसन्नता साधनञ्जीवनस्य लक्ष्यङ्करणीयम्। कुटुम्बेन सह कालँय्यापनं, पुस्तकं पठनं, क्रीडनं, प्रकृत्यामटनमित्यादिषुु कार्येषु कालँय्यापयनीयानि न तु कार्यालयस्य सोपानमारोहणे।

शनिवार, 15 अप्रैल 2017

अशोधितसम्पत्तिकरः

प्रतिवर्षमेप्रिलमासे सम्पत्तिकरपत्रमागच्छति। प्रतिवर्षमेकसमाना स्थितिरस्ति। सर्वकारस्सम्पत्तिकर आधिक्येन निरूपयति। सम्पत्तिकरस्सम्पत्तेरापणमूल्ययालम्बते। अस्मिन् नगरे प्रतिदिनङ्गृहाणां मूल्यानि वर्धमानानि। अनेन कारणेन सम्पत्तिकरोऽपि वर्धमानोऽस्ति। तथाप्येषा स्थितिरधिका गम्भीरास्ति हि सर्वकारो गृहाणां मूल्यान्यापणमूल्येभ्योऽप्यधिकतरानि निरूपयति। सर्वकारो लुब्धव्यापारीव व्यवहरति। गृहाणां मूल्यानि वर्धमानानीति तु सत्यं परमेतावन्न। सर्वकारस्सम्पत्तिकरविरोधसन्दर्भे जनेभ्यो याचिका गृहणाति। ये जना याचिकाः प्रेषयन्ति तेभ्यस्सर्वकारः काले काले सम्पत्तिकरं न्यूनङ्करोति। एभ्यो जनेभ्यः कश्चनुपशमः। यदि सर्वकारस्सम्पत्तिकरं न्यूनङ्कर्तुं शक्नोति तत्किमर्थं सर्वकारो लोभङ्करोति? बहवो जनास्ता याचिका न प्रेषयन्ति। एतादृशा जनाज्ञानादधिकसम्पत्तिकरो ददति। ते बलिशाः। मम एकः प्रतिवेश्येतादृश इत्यहञ्जानामि हि स प्रतिवेशी मम भार्याङ्कथयाञ्चकार यत् स सम्पत्तिकरस्य विरोधयाचिका कदापि नाददत्। कदाचिदन्याः प्रतिवेशिनोऽप्येतादृशाः। कदाचित् सर्वकारश्चिन्तयति ये जना याचिका न प्रेषयिष्यन्ति तेभ्योऽधिककरस्सम्पादयतुं शक्नोमीति। अपि च ये जना याचिका प्रेषयिष्यन्ति तेभ्यः करो न्यूनङ्करोमि। यद्यपीयं सम्भावना विद्यते तथाप्यहमियं सत्यमेवास्तीति मन्तुं न शक्नोमि। किङ्कारणेन? सामान्यतस्सर्वकार एतादृशो न व्यवहरति। किङ्कारणेन सम्पत्तिकरसन्दर्भे सर्वकार एतादृशो व्यवहरत्यहं न जानामि। परन्त्वहमिदमवश्यञ्जानामि यद्यदा यदा सर्वकारो मदशोधितसम्पत्तिकरँल्लब्धुञ्चेष्टाङ्करिष्यति तदा तदाहँय्यथाशक्त्या करस्य न्यूनङ्कारयतुँय्याचिकां दत्त्वाशोधितकरस्य विरोधो दर्शयिष्यामि।

रविवार, 2 अप्रैल 2017

'एरॉयवल' चलचित्रम्

ह्यः 'एरॉयवल' चलचित्रमपश्यम्। यदा प्रथमवारमस्य चलचित्रस्य विषयेऽशृणवम्, अभौम्यजन्तूनां विषयेऽनेकेषु चलचित्रेष्विदमप्यन्तममित्यमन्ये। परन्त्वस्य चलचित्रस्य विषये पठित्वाजानाँय्यच्चलचित्रमिदं भिन्नम्। इदञ्चलचित्रं मानवाभौम्यजन्तुषु युद्धमधिकृत्य नास्ति प्रत्युत मानवाभौम्यजन्तुषु मध्ये प्रथमसम्पर्कस्य विषयेऽस्ति। चलचित्रे किमपि युद्धं नास्ति। अभौम्यजन्तवो भौमिकभाषां न जानन्ति, मानवास्तेषां भाषां न जानन्ति। कथं सम्पर्कस्स्थाप्यते? कथमन्योन्यानवगम्यन्ते? शनैःशनैः स्वभाषामन्यतरं पाठ्यते। अभौमिकभाषा ज्ञात्वा मानववैज्ञानिकी तत्त्वतां भिन्नप्रकारेणानुभवति। सा कालमपि भिन्नतयानुभवति। सा भविष्यं दृष्टुं शक्नोति। कथम्? हि भाषा चित्तवृत्तिमभिस्पृशति। तत्त्वता भाषायामवलम्बिता। अयञ्चलचित्रस्य सन्देशोऽधारश्च। अहमपीमं विषयमधिकृत्य चिन्तयामि। किं संस्कृतं पठनं मम चित्तवृत्तिमभिस्पृशति? यदीदं सत्यं तर्ह्यहमाश्चर्यचकितो नास्मि। अहं भविष्यङ्कदापि न द्रष्टुं शक्ष्यामीति स्पष्टम्। किन्तु कदाचितेकाधिकां भाषां ज्ञात्वाहं तत्त्वतामेकाधिकेन दृष्टिकोणेन दृष्टुं शक्ष्यामि। इमं विषयमधिकृत्य चलचित्रं निर्मितमेतेन मयाति प्रसन्नतानुभूयते। हॉलिवुडैवेदृशञ्चलचित्रं रचयितुं शक्नोति। भारतयीदृशञ्चलचित्रङ्कदापि न रचयिष्यते। कालङ्कथयिष्यति यद्यहञ्जगदेकाधिकं दृष्टिकोणेन द्रक्ष्यामि।

शनिवार, 18 मार्च 2017

किमर्थमपगच्छम्?

गतसप्ताहेऽहमकथयँय्यत्पूर्वतनगृहं व्यक्रीणम्। अहं तस्मिन् गृहे केवलञ्चत्वारो वर्षा अवसम्। किमर्थमहङ्केवलञ्चत्वारो वर्षा एव पश्चादपगच्छम्? जीवनेऽहङ्कदापि प्रतिवेशीभिस्सह न सममिलम्। अतः पूर्वतनगृहङ्क्रीणंकालयिदङ्गृहङ्कीदृशं सामन्तेऽस्तीत्यधिका चिन्ता नाकरवम्। कीदृशः प्रतिवेशी लप्स्ययित्यप्यधिका चिन्ता नाकरवम्। सामान्यः प्रतिवेशी लप्स्ययित्यमन्ये। तङ्गृहङ्क्रीणन् काले मम पुत्रो न जातः। कीदृशा विद्यालया वर्तन्तयिति गंभीरतया नाचिन्तयम्। ये बालका सामन्ते क्रीडन्ति किं तैर्बालकैस्सह ममापत्यानि क्रीडितुमेषिष्यामि? किं तैस्सह विद्यालयङ्गन्तुं पठितुञ्चैषिष्यामि? इमौ प्रश्नौ कश्चिच्चिन्तनमकरवं परन्तु हि ममापत्यानि नासन्नत आभ्यां प्रश्नाभ्यां मम विशेषभावना नासीत्। अनन्तरं मम पुत्रो जातः। वर्धमानस्य पुत्रस्य क्षेमायाहमचिन्तयम्। वामतप्रतिवेश्युद्दिश्य मज्जुगुप्सा जाता। तेऽविमर्शिणः। द्वित्राः कुक्कुरास्सदैवाबुक्कयन् दिवारात्रम्। यद्यप्हं तैस्सह कुक्कुराणां विषये वार्तालापमकरवमं तथापि तैः कुक्कुरास्तूष्णीङ्कर्तुङ्कोऽपि यत्नो न कृतः। एकदाहम मध्यनिश्यारक्षकाहूतवान् हि तेषाङ्कुक्कुरा नितरामबुक्कयन्। तथापि ते कोऽपि यत्नो नाकुर्वन्। दूरवाण्यामपि तयुच्चैर्भाषन्ते स्म बहुवारं मध्यरात्रम्। दक्षिणप्रतिवेशी विवाहविच्छेदितः। तस्यापत्ये तस्य भूतपूर्वभार्यया सहान्यत्स्थाने वसतस्स्म। वीथीपारमपत्यानि वयोधिकानि। अतो मम पुत्रेण सह क्रीडितुङ्कोऽपि नासीत्। अपि च तस्मिन् सामन्तेऽधिकतमा जना विदेशीया आसीत्। ते मम संस्कृतेरुत्सवा नानुष्ठानङ्कुर्वन्ति स्म। एतैः कारणैरहं प्रयाणङ्करिष्यामीति निश्चितवान्। तदानीमहं नूतनगृहमक्रीणम्। ईश्वरकृपया नूतनसामन्तयेतास्समस्या न सन्ति। अस्मिन्सामन्ते बहवो जनास्स्वदेशीयाः। ये उत्सवा अनुष्ठानमहङ्करोमि तेऽपि कुर्वन्ति। मम पुत्रो मदीयस्य संस्कृतेरुत्सवा अनुष्ठानङ्कुर्वन् वर्धिषीष्टेति ममिच्छास्मिन् सामन्ते पूरयतुं शक्यतयिति प्रतिभाति। बहुन्यपत्यान्यपि सन्ति। मम पुत्रस्तैस्सह प्रतिदिनङ्क्रीडन्ति। स्वदेशीयजनाः कुक्कुरा अपि न पालयन्ति। अस्मिन् सामन्ते शान्तिः प्रवर्तते। एतावत्पर्यन्तमहं मम उदावसितुं निर्णयेण प्रसन्नोऽस्मि।

रविवार, 12 मार्च 2017

सङ्ख्यानामपरतामधिकृत्य

किं त्वं पञ्चसहस्ररुप्यकाणि चिक्षिप्सिष्यसि? न खलु। किमर्थमहमेष प्रश्नः पृच्छामि? ह्यहङ्कदाचिदिदमकर्वम्। कदाचिदहं पञ्चाथवा दश सहस्ररुप्यकाण्यक्षिपम्। कथङ्किमर्थञ्च? सद्य गृहं व्यक्रीणम्। त्रिलक्षं मूल्यम्। गृहं विक्रीणंबहव्यो महत्यस्सङ्ख्या वर्तन्ते। विक्रयणं मूल्यम्, उद्धारं मूल्यमित्यादयः। क्रेतृणा सह सामनि कुर्वत्येतादृश्यो महत्यस्सङ्ख्या दृश्यन्ते। सामन कुर्वति क्रेता मूल्यं न्यूनञ्चिकीर्षति विक्रेता परार्ध्यञ्चिकीर्षति। सामन कुर्वंस्त्रिलक्षं रुप्यकाणि न्यूनं परार्ध्यं कारयतुं पञ्चसहस्रमथवा दशसहस्रं राशिर्प्रयुज्यते। सामन कुर्वंकश्चन समयो यापयसि। कदाचित्सामनि त्वं सफलं भवसि कानिचिद्रुप्यकाण्यप्युद्धरसि च। कदाचिदधिकानि रुप्यकाण्युद्धरतुं शक्यते परन्तु व्याकुलतोद्वेगश्चानुभूयेते। अन्ततः पञ्चसहस्ररुप्यकाणय्धिकृत्य समयो व्यर्थङ्कर्तुं नेच्छामि व्याकुलतोद्विग्नता च समाप्तुमिच्छामीति चिन्तयंत्वं मूल्यमङ्गीकरोषि । परन्तु पञ्चसहस्रमल्पसङ्ख्या नास्ति। यदि कुत्रचित्पञ्चसहस्ररुप्यकाणि लभ्यन्ते किं तानि न स्वीकरिष्यसि? किमर्थं मन्यसयिदं सामन समयो व्यर्थङ्करोति? किमर्थं पञ्चसहस्रँल्लघुसङ्ख्या प्रतिभाति? हि पञ्चसहस्रं त्रिलक्षस्यापेक्षयाल्पसङ्ख्या प्रतिभात्यपि चोद्विग्नां समाप्तुमिच्छसि। परन्तु पञ्चसहस्ररुप्यकाणि पञ्चसहस्ररुप्यकाणि सन्ति। तेषां प्रयोजनमिदानीमपि साम्यँव्वर्तते किस् त्रिलक्षं सङ्खया विद्यतयुत न विद्यते। पञ्चसहस्ररुप्यकै: पूर्वं यः क्रीणितुं शक्नोति स इदानीमपि क्रीणितुं शक्नोति। अतः पञ्चसहस्ररुप्यकाणि त्रिलक्षरुप्यकैस्तोलयित्वा पञ्चसहस्ररुप्यकाण्यल्पराशिरस्ति न चिन्तनीयमित्यतिमहत्वपूर्णम्। तानि पञ्चसहस्ररुप्यकाणि यतनीयानि। दृढं भव। अल्पसङ्ख्या महत्सङ्खयया मा तोलय विशेषतो धनम्। सामनोऽधिकं धनं प्राप्नुहि।

रविवार, 5 मार्च 2017

संस्कृते पठ्यमाने समयः क्षीयते किम्?

यदा यदा संस्कृतवदनपठनयोर्विवादः श्रूयते, किमर्थमहं संस्कृतं पठेयमिति प्रश्नः पृच्छ्यते। संस्कृतस्य प्रयोजनङ्किमिति प्रश्नोऽपि श्रूयते। यद्यपि संस्कृतं मह्यं रोरुच्यते तथाप्यहं वदामि सामान्यतस्संस्कृतस्य कोऽपि प्रयोग्मात्कं प्रयोजनं नास्ति। इदङ्कथयित्वा मह्यं संस्कृतस्य प्रयोग्मात्कं प्रयोजनं निश्चयेन विद्यते। किम्प्रयोजनं त्वम्पृच्छसि। संस्कृतवदनपठनाभ्यां मदीयं हृदयं मोमुद्यते। किमेतत्प्रयोजनं न पर्याप्तम्? किञ्चलचित्राणि पश्यन्तो जनाः पृच्छन्ति चलचित्राणां प्रयोजनङ्किम्? प्रतिदिने सर्वे जना दूरदर्शनन्द्रष्ट्वा बहवो घण्टाः क्षयन्ति। जनाः फेसबुकित्यादयिषु जालस्थानेषु समयँय्यापयन्ति। प्रौढजना अपत्यानि च चित्रकीडासु कालँय्यापयन्ति। एतासाङ्क्रियाणां प्रयोजनं किम्? सर्वाणि क्रियमाणानि कार्याणि जीविकायै न सन्ति। केवलङ्किानिचित्कार्याणि जीविकायै सन्ति। तर्हि किमर्थं संस्कृतस्य विषयेऽयं प्रश्नः पृच्छ्यते। अथास्याः स्थितेः कारणङ्कथयामि। यत्कार्यं बहवो जनाः कुर्वन्ति तत्समाजेन स्वीक्रियते। यत्कार्यं विरला जनाः कुर्वन्ति तत्सन्देहेन दृश्यते। प्रसन्नं सन्तुष्टञ्च जीवनं भूयादिति सर्वलोक इच्छति। कश्चन किञ्चित्कार्यङ्कृत्वा प्रसन्नचिद्भवत्यपरोऽन्यत्कार्यङ्कृत्वा। संस्कृतपठनेऽपठने कापि हानिर्नास्ति। मनोरञ्जनायानेकेषु कार्येषु संस्कृतपठनमन्यतमम्। अतस्संस्कृतं तुभ्यं रोचते चेत्पठ नोचेन्न पठ। परन्तु संस्कृतस्य किं प्रयोजनमिति मा प्राक्षीः।

बुधवार, 1 मार्च 2017

संस्कृतेन किमर्थम्?

को बुद्धिमान्व्यक्तिरन्तर्जाले संस्कृतेन जालवृत्तिं रचयति? अहमयं प्रश्न एकेन तर्केण दत्त्वा विवादं समाप्तुं शक्नोमि। हि मह्यं रोचते न कापि हानिश्चेति। परन्त्वहमस्मिन् विषयेऽधिकञ्चिकथयिषामि। कश्चन जनो मदीयञ्जालवृत्तिम्पठेद्वा नेति चिन्ता मां न बाधते। अहं संस्कृते प्रवाहवाची बुभूषामि। कस्याञ्चिद्भाषायां प्रवाहेण वक्तुं तस्यां भाषायामन्यैस्सह सम्भाषणमतीवानिवार्यम्। संस्कृतेन भाषमाणा जना विरलाः। अतो लेखनमेव मम विकल्पः। केवलमिदङ्कारणं न। संस्कृतभाषा तस्या व्याकरणञ्चातीव सुन्दरे प्रफुल्ले च। संस्कृतपत्रिकासु वार्तापत्रेषु च भाषाया विस्तरेण सौन्दर्यं प्रफुल्लत्वञ्च न दृश्येते। हि पत्रिका वार्तापत्राणि च संस्कृतभाषा जनेषु लोकप्रियङ्कारयितुँय्यत्नाः कुर्वन्ति। अतस्तेषु सरला भाषैवोपयुज्यन्ते। सन्धिरपि सम्यङ्नास्ति। कदाचिदुपयुज्यते कदाचिन्नोपयुज्यते। दशसु लकारेषु केवलं षड्लकारा दृश्यन्ते। लिड्लुङ्लुडार्शीलिङ्लकारा न दृश्यन्ते। सर्वेषु कृदन्तप्रत्ययेषु न्यूनतमाः प्रत्यया दृश्यन्ते। अहङ्कठिना भाषा प्रयुयोजयिषाम्येषा स्थितिर्नास्ति। किन्त्वहं भाषया दत्तानि सर्वाण्युपकरणानि लेखनं शोभयितुँय्यथातत्त्वङ्कथयितुमिच्छामि। अत एषा जालृत्तिस्संस्कृतयेव स्थास्यति।