रविवार, 15 अप्रैल 2018

स्वप्नाः

सर्वे रात्रौ स्वप्नगता भवन्ति। स्वप्नानाङ्किं प्रयोजनम्? सद्यः कृतानि शोधकार्याणि दर्शयन्ति यत् स्वप्ना अति महत्वपूर्णाः। ते न निर्प्रयोजनम्। स्वप्नाः प्रायो वेगचक्षुसहितनिद्रायां (रेपिड-आय-मूवमेन्ट) दृश्यन्ते। वेगचक्षुसहितनिद्रा प्रमुखत उत्तररात्रौ भवति। अतः स्वप्नाः प्रायः प्रातःकाले दृश्यन्ते। मानवमस्तिष्के ‘एमिग्डिला’ नाम्ना कश्चनावयवः। स मस्तिष्कस्य भावभययोः केन्द्रः। गतदिवसे या घटना वृत्तान्ताश्चास्मान् भाययन्ति तेषां सम्बन्धितानां भावानां परिहाराय मस्तिष्कः स्वप्नाञ्जनयति। उद्विग्नजनयन्तीनाङ्घटनानां सम्बन्धितान् स्वप्नान् दृष्ट्वा तासाङ्घटनानामुद्विग्नता न्यूना भवति। आगामिदिने ता एव घटना अस्मान् पूर्वदिनमिव न बाबाध्यन्ते। न्यूनतया बाधन्ते। एतत् स्वप्नकारणात्। मानसिकविषादग्रस्ता जना अधिकाः स्वप्ना अनुभवन्ति यतस्तेषां मनस्सु बहवो नकारात्माकभावा भयानि च वर्तन्ते। स्वप्नदर्शनस्थितौ शरीरयुद्विग्नसम्बन्धितानि रसायनानि वहन्ति। यतो मानसिकविषादग्रस्तजना अधिकाः स्वप्ना अनुभवन्त्यतस्तेषां शरीरयिमानि रसायनान्यधिकानि वहन्ति स्वप्नदर्शनकाले। परन्त्वेतादृशानि रसायनान्यधिकमात्रायां हानिकारीणि। अत इमे जना बहुशः प्रातःकाले स्वप्नावस्थायाञ्जाग्रति। तेषां मस्तिष्कस्ताञ्जागरयति। तस्मात्ते पूर्णतया निद्रान्न प्राप्नुवन्ति। इत्यस्मात्तेषामुद्वेग्ना वर्धते। तेषाञ्जीवनयिदङ्कुचक्रञ्जायते। एतन्निवारणार्थं दिवसे साकारात्मकविचाराश्चिन्तनीयाः। वृथा भयानि न पालनीयानि। यदा यदा किञ्चिद्वस्तु काचित्स्थितिर्वा भाययति तत्सम्मुखीकृत्य प्रयत्नाः कृत्वेमानि भयानि परिहारणीयानि। तर्हि दुस्स्वपना न्यूना भवेयुः सम्पूर्णनिद्रा च प्राप्येत। स्वस्थजनेषु स्वप्ना लाभकारिणो न हानिकारिण इति स्मर्तव्यम्। स्वप्ना रहस्यमया इति न चिन्तनीयं तेभ्यो न भेयञ्च।

रविवार, 8 अप्रैल 2018

निर्णयास्तेषां परिणामाश्च

कश्चन निर्णयः साधुरसाधुर्वा कथं निश्चिनोषि? तस्य निर्णयस्य परिणामं निरीक्ष्य? यद्युत्तमपरिणामः प्राप्यते तर्ह्युत्तमनिर्णयो बभूव ननु? आपातेनेदं समीचीनं भासते परन्त्वयं सिद्धान्तो भाग्यस्य पात्रमुपेक्षते। कस्मिँश्चित् परिणामे द्वे वस्तू महत्वपूर्णे - प्रयत्नो भाग्यञ्च। यदि परिणामे केवलं प्रयत्नस्य पात्रमस्ति तर्ह्येवायं सिद्धान्तः सत्त्वं दर्शयति। परन्तु वस्तुतस्तथा न। प्रयत्नेभ्यः पश्चादपि कदा कदापेक्षितः परिणामो न लभ्यते - दैववशात्, भाग्यवशात्। यदि यथाशक्ति प्रयत्नाः कृत्वापि यथेच्छा परिणामो न लभ्यतेऽस्मिन् सन्दर्भे किं ‘निर्णयः सम्यङ्नासीत्’ इति वदेः? न खलु। सन्दर्भेऽस्मिन्निर्णयः समीचीनः परन्तु भाग्यवशादपेक्षितः परिणामो नालभ्यत। अतः परिणामान् वीक्ष्य निर्णयानामौचित्यमनौचित्यन्न निर्धारणीयम्। तर्हि कथं निर्धारणीयम्? निर्णयकाले याः सूचना या मतिश्चासन् किं सर्वा उपयुज्य निर्णयः कृतः? किं स निर्णय उत्तमपरिणामस्य सम्भावनामधिकतमाकुरुत? यद्यनयोः प्रश्नयोर्त्तरं ‘आम् / बाढम् / नूनम्’ अस्ति तर्हि त्वयोत्तमनिर्णयोकृतः - निर्णयस्य फलँव्विहाय।

सोमवार, 2 अप्रैल 2018

ई-पुस्तकमुत कागदपुस्तकम्?

अहं बहूनि पुस्तकानि पठामि। तस्माद्बृहन्मात्रायां पुस्तकानि क्रीणामि। दैवात् पुस्कतानां मूल्यैरहन्न क्लिश्ये परन्तु तथापि कश्चन द्वैधीभावो मां बाधते। पुस्तकेभ्यो गृहेऽवकाशस्यावश्यकता। बहूनि पुस्तकानि बृहदवकाशँय्याचन्ते। अधिकवस्तूनि न सङ्ग्रहणीयानीति मम चित्तवृत्तिः। अतः कस्माच्चित्कालात् पूर्वमहं ‘ई-पाठक’ (ई-रीडर) अक्रीणि। तस्मिन् कानिचन पुस्तकान्यपठम्। कापि समस्या नाबाधत परन्तु य आनन्दः कागदपुस्तकानि पठित्वान्वभवं तादृश आनन्द ई-पाठके पठित्वा नान्वभवम्। किं ब्रवीमि? ई-पाठके समस्तपुस्तकन्न दृश्यते केवलमेकः पृष्ठो दृश्यतेऽस्मात् सन्तुष्टिर्न प्राप्यते। अपि च पुस्तकपठनं समाप्य तत्पुस्तकमदृश्यमिव भवति यतः कागदपुस्तकमिव तस्य भौतिकास्तित्वं नास्ति। पुस्तकपठनात् केभ्यचिद्दिनेभ्यः पश्चात्तस्य विषये मनसि कोऽपि विचारो नागच्छति। परन्त्वेषा समस्या कागदपुस्तकेषु न दृश्यते। तानि पुस्तकनिधानयुपविशन्ति। काले काले तानि पुस्तकानि दृष्ट्वा तेषाँव्विषये चिन्तयामि। काले काले केषाञ्चित् पुस्तकानाङ्केचन भागाः पुनरपि पठामि। परन्तु प्रायेणैकवारमात्रं पठितानि सर्वाणि पुस्तकानि निधानयुपविशन्नवकाशमपि समाश्रयन्ति किमप्यन्यप्रयोजनन्न साधयन्ति। इदं मह्यन्न रोचते। गृहत्यजनसमये तानि सर्वाणि पुस्तकानि नूतनगृहं नेतव्यानि। किङ्करणीयम्? एकः समाधानः। पुरातनानि पुस्तकानि विक्रेतव्यानि। इदानीं पर्यन्तमहमिदङ्कदापि न कृतवान्। स्यान्नाम एतत्करणीयम्। परन्तु यदि विक्रयणङ्करणीयं तर्हि ‘ई-पुस्तके’ को दोषः? अपितु ‘ई-पुस्तकानि’ विक्रयणस्यावश्यकता नास्ति। हा हन्त! कीदृशो द्वैधीभावः? तव काद्यता - ई-पुस्तकान्युत कागदपुस्तकानि? केन कारणेन?

रविवार, 1 अप्रैल 2018

जीवने किं महत्वपूर्णम्?

जीवने किं महत्वपूर्णमिति प्रश्नो यदि पृच्छ्येत क उत्तरो दीयताम्? धनम्, शौर्यम्, यशः, विशालगृहम्, सुखीजीवनम्, सुन्दरजीवनसहयातृ, अपत्यानि, उत्तमोद्योगः, शान्तिपूर्णनिद्रा, विशालकुटुम्बः, बहूनि मित्राणि, आरोग्यम् - कः साधूत्तरः? वस्तुत एषु कोऽपि एको न साधूत्तरः। भिन्नजनैर्भिन्नवस्तूनि महत्वपूर्णता दीयन्ते। कस्मैचिद्धनं महत्वपूर्णम्, कस्मैचिदारोग्यम्, कस्मैचिच्छौर्यम्, कस्मैचिद्यशः, कस्मैचिदुद्वेगरहितञ्जीवनम्, कस्मैचिदुत्तमोद्योगः, कस्मैचित्कुटुम्बायापत्येभ्यश्च बृहत् समयः। अतस्तव जीवने किं महत्वपूर्णमस्य प्रश्नस्योत्तरङ्केवलं त्वमेव दत्तुं शक्नोषि। केनाप्यन्येन त्वाञ्जातु न एतत्कथयितव्यम्। गभीरतया विचिन्त्य निश्चिनुष्व तव जीवने केषां महत्वमधिकम् । ततः परं तन्महत्वपूर्णवस्तुषु जनेष्वेव समयँव्व्ययस्व। तव जीवनसन्तुष्टिरानन्दश्च वर्धिष्येते। अहँव्वृथावस्तुषु जनेषु समयमव्ययेऽयँव्विशादो मरणशय्यायां तव मनसि नागमिष्यति।

रचनात्मकता

जीवने रचनात्मकता महत्वपूर्णा। रचनात्मका जनाः समस्या नूतनोपायैर्निवारयन्ति समाधानानि च दत्तुं शक्नुवन्ति। केचन जना अतिरचनात्मकाः केचन जना न्यूनतया रचनात्मकाः। केन कारणेन? ये जना न्यूनतया रचनात्मका रचनाशक्तिँव्वर्धनार्थं तैः किमपि कर्तुं शक्यते वा? नूनम्। यदातिभिन्नविषया युज्यन्ते तदा रचनात्मका विचारा उद्भवन्ति। येषाँव्विषयानां सामान्यतः किमपि परस्परं सम्बन्धं न भासते तेषु विषयेषु यः सम्बन्धं स्थापयितुं शक्नोति स पूर्वमचिन्तिता विचारा दत्तुं शक्नोति। तस्मात् स अन्यैः रचनात्मको भास्यते। एतत् कथं साधनीयम्? नानाविषयान् योजनार्थं तान् विषयाञ्ज्ञानमनिवार्यम्। जानस्य कृते तान् विषयानधिकृत्य पठनीयं तेषु क्षेत्रेषु कश्चनानुभवोऽपि प्रापणीयः। तर्ह्येवैषु विषयेषु परस्परं सम्बन्धो द्रष्टुं शक्यते। पूर्णतया निद्रापि लम्भनीया। वेगगतिचक्षुसहितनिद्रायामेव (रेपिड-आय-मूवमेन्ट) मस्तिष्को भिन्नविषयान् युनक्ति नूतनविचाराश्च रचयति। सामान्यतरेषा निद्रास्थितिर्निद्राया अन्ते भागे वर्तते। अता रचनात्मककार्यचिकीर्षवः प्रातःकालयुषायाः पूर्वभागयुत्थाय कार्यङ्कुर्वीरन्।

किमर्थं शेमहे

‘व्हॉय व्ही स्लीप’ इति पुस्तकमपठम्। किमर्थं शेमहयिति प्रश्नस्योत्तरो विस्तरेण ददाति पुस्तकमिदम्। राबर्टव्हाकरवर्योऽस्य पुस्तकस्य लेखकः कश्चन निद्रावैज्ञानिकः। अस्मिन् पुस्तके स द्योतयति मस्तिष्कस्यारोग्ये निद्रा महत्वपूर्णं पात्रमनुष्ठते। निद्रायाः प्रमुखतो द्वे प्रकारे - वेगगतिचक्षुरहिता (नान-रेपिड-आय-मूवमेन्ट), वेगगतिचक्षुसहिता (रेपिड-आय-मूवमेन्ट) च। प्रथमायां मस्तिष्को दिवसे ज्ञातानि नूतनतथ्यानि दृढीकरोति। द्वितीयायां स तानि तथ्यानि पूर्वतनैरनुभवैस्सह तनित्वा नूतना प्रज्ञा बुद्धिश्च जनयति। निद्राभावो बहवा रोगाणामाधारः - हृदयरोगाः, मस्तिष्करोगाः, मधुमेहः, स्थूलत्वम्, उच्चरक्तचापः, अर्बुदरोगाः प्रभृतयः। अष्टघण्टाः परिमिता निद्रावश्यँल्लम्भनीयेत्यपि पुस्तकस्य सन्देशः। ये जना अष्टघण्टाभ्यो न्यूनावधिं शेरते ते तेषां शरीरं बहुहानिर्ददति। स्वास्थायाष्टघण्टापरिमिता निद्राति महत्वपूर्णास्मिन्न कोऽपि संशय इत्यास्माभिर्ज्ञातव्यम्। अद उत्तमपुस्तकमवश्यं पठनीयम्।

रविवार, 25 मार्च 2018

‘ए फर्स्ट क्लास कटैस्ट्रोफि’

ह्यर्डायनाहैनरीक्या लिखितं ‘ए फर्स्ट क्लास कटैस्ट्रोफि’ इति पुस्तकस्य मम पठनं समाप्तम्। १९८७ वर्षस्यौक्टोबरमासस्योनविंशतिदिनाङ्केऽमेरिक्यंशापणः २२.६% पतयामास। कथङ्किमर्थञ्च तत्पतनञ्जज्ञयित्यस्मिन् पुस्तके विवृतम्। बहृच्छोधकार्यङ्कृत्वा लेखिकयैतत्पुस्तकँल्लिखितम्। अंशापणस्य पतनस्य बहुवर्षेभ्यः पूर्वङ्किङ्किञ्जज्ञिरे तानि कथङ्कथमंशापणं पतनस्य समीपे निन्युरिति विस्तृतरूपेण दत्तमस्मिन् पुस्तके। १९८७ तमे वर्षे ‘डावजोन्स-इन्डेक्स’ केवलमुपद्विसहस्राङ्का डयते स्म। इदानीन्तु स उपपञ्चविंशतिसहस्राङ्का डयमानोऽस्ति। एतादृशमारोहणं मय्याश्चर्यञ्जनयति। अंशापणस्य विषये मया बहूनि पुस्तकानि पठितानि। सर्वाणि पुस्तकानि मया सम्पूर्णतयावगतानि परन्त्विदं पुस्तकं भिन्नम्। पुस्तके स्थाने स्थाने गहनविषया मया नावगताः। पुस्तकस्य न दोषः। ममैव दोषः। केचन गहनविषयाः पाठं पाठमेवागमनीयाः। तदर्थं भविष्यत्काले पुस्तकमिदं मया पुनः पठनीयम्।